कृतं वरुणायेति सङ्कल्प्य ब्राह्मणेभ्यः स्वयं दद्यात् । यस्मादन्यायेनार्जितात्सकाशाद्दण्डरूपेण यावद्गृहीतं तावत्तस्मै प्रदेयमिति । अथवा सङ्गत्यन्तरं--
भूतच्छलानुरोधेन द्विगतिस्समुदाहृतः ।
इति व्यवहारस्य छलानुसरणं तत्वासरणं इति गतिद्वयमुक्तं । तत्र तत्वानुसरणेन सप्तदशविवादपदान्यनुक्रान्तानि । छलानुसरणेन प्रकीर्णकाख्यं विवादपदमनुक्रान्तमिति । तथा च बृहस्पतिः--
साक्षिसभ्यार्थसन्नानां दूषणे दर्शनं पुनः ।
स्ववाचैव जितानां तु नोक्तः पौनर्भवो विधिः ॥
इति । अत्र व्यवहारान्नृपः पश्येदिति विधिः स्वापराधेन व्यवहारस्य समाप्तत्वात् स्ववागनुसरणरूपच्छलमेवावलम्बते न तु प्रमाणान्तरगवेषणां विलम्बासहत्वाद्विधेः ।
अत्र विशेषमाह मनुः--
अमात्याः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा ।
तत्स्वयं नृपतिः कुर्यात्तान् सहस्रं च दण्डयेत् ॥
अतः पुनर्न्यायो राजैकनियत इति स्वयंनृपतिपदाभ्यां गम्यते । अत्र प्रतिप्रसवमाह कात्यायनः--
न क्षेत्रगृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णितम् ॥
अस्वतन्त्रकृतं परावर्त्यमेव नास्त्यत्र पुनर्न्याय इति भावः । अनु वर्णिताः स्वतन्त्रेणादिष्टाः । अस्वतन्त्रानाह नारदः--
अस्वतन्त्राः स्त्रियः पुत्राः दासाद्याश्च परिग्रहाः ।
इति । परिग्रहा उपजीविनः । अत्र विशेषमाह कात्यायनः--
अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् ।