पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५९

पुटमेतत् सुपुष्टितम्
28
श्रीसरस्वतीविलासे

रम्यमुपवनादिभिः, पशव्यं पशुभ्यो हितं, आजीव्यं कन्दमूलफलपुष्पादिभिः । यद्यप्यल्पोदकतरुपल्लवदेशो जाङ्गलः, तथाप्यत्र समृद्धजलतरुपर्वतदेशो जाङ्गल इति विज्ञानेश्वरः ।

 दुर्गं षड्विधम्--

"धन्वर्दुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव च ।
नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम्" ॥

 इति मनुस्मरणात् । अत्र विशेषः स्मृत्यन्तरे--

"धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् ।
स्त्रीषु क्लीबान्नियुञ्जीत नीचान्नीचेषु कर्मसु ॥ इति ।

 अनेनैवाभिप्रायेणोक्तं याज्ञवल्क्येन--

"तत्र तत्र च निष्णातान् अध्यक्षान् कुशलान् शुचीन् ।
प्रकुर्यादायकर्मान्तव्ययकर्मसु चोदितान्" ॥ इति ।

तत्र धर्मादिस्थानेष्विति शेषः । अस्यार्थः स्पष्टीकृतो वृद्धैः--

प्राज्ञत्वमुपधाशुद्धिरप्रमादोऽभियुक्तता ।
कार्येषु व्यसनाभावः स्वामिभक्तिश्च योग्यता ॥ इति ।

राज्ञां प्रतापार्जितस्य दाने फलाधिक्यमाह याज्ञवल्क्यः--

"नाऽतः परतरो धर्मो नृपाणां यत् रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ इति ।

रणार्जितद्रव्याभावेऽपि तद्द्रव्यदानात् तत्र मरणमेव श्रेय इत्याह स एव--