पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६१

पुटमेतत् सुपुष्टितम्
23
श्रीसरस्वतीविलासे

न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नाऽयुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ इति ।

व्यवहारदर्शनम्.

अत्र विशेषमाह विष्णुः--

 "प्रतिदिनमायव्ययपरिशीलनं कर्तव्यं व्यवहारदर्शनवदिति" अनेनाभिप्रायेणाह याज्ञवल्क्यः--

"कृतरक्षस्समुत्थाय पश्येदायव्ययौ स्वयम् ।
व्यवहारान् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः" ॥ इति ।

कृतरक्षः पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातकाल उत्थाय स्वयमेवायव्ययौ पश्येत् । ततो व्यवहारान् दृष्ट्वा मध्याह्नकाले कामतो यथारुचि भुञ्जीतेति क्रमविवक्षामाह विज्ञानेश्वरः । अत्र क्रमो न विवक्षित इति भारुचिः । अतः प्रातःकाल एव स्नात्वा भुक्त्वा व्यवहारदर्शनं कर्तव्यमिति । भोजनानन्तरकृत्यमाह वसिष्ठः--

 "भाण्डागारनिरीक्षणं, चारदूतप्रेषणं, उपायनादिस्वीकारः, मन्त्रविचारो मन्त्रिभिः" इति ।

 उपायनं सामन्तभूपालैः प्रेषितः करः । चारा वाणवेषधारिणो गूढाः । दूतास्तु प्रकाशाः यथाऽऽह योगीश्वरः--