पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६२

पुटमेतत् सुपुष्टितम्
31
व्यवहारखाण्डः

"हिरण्यं व्यावृतानीतं भाण्डागारे विनिक्षिपेत् ।
पश्येच्चारान् ततो दूतान् प्रेषयेन्मन्त्रिसङ्गतः" ॥ इति ।

अत्र विज्ञानेश्वरः--

 "चारास्तु त्रिविधाः-- निसृष्टार्थाः, सन्दिष्टार्थाः, शासनहस्ताश्चेति । तत्र निसृष्टार्थाः राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं क्षमाः । सन्दिष्टार्थास्तु उक्तमात्रं परस्मै निवेदयन्ति । शासनहस्तास्तु राजलेख्यहारिण इत्याह" ।

तदनन्तरकर्तव्यमाह विष्णुः--

"अपराह्णे यथेच्छमन्तःपुरविहारी स्यादिति"

अत एवाह मनुः--

"भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सदा ।
विहरेच्च यथाकामं पुनः कार्याणि चिन्तयेत्" ।

इत्यत्र केन सहेत्याकाङ्क्षायामाह याज्ञवल्क्यः--

"ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समाहितः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत्" ॥ इति ।

ततः अपराह्ण इत्यर्थः । ततः किं कुर्यादित्युक्तं हारीतेन--

"सन्ध्यामुपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
रहस्यस्थायिनां चैव प्रणिधीनां च चेष्टितम् ॥ इति ।

तथाच विष्णुः--

 "सायंकाले शस्त्रपाणिः क्वचित् स्थापितचारानाहूय रहस्यं शृणुयात्" इति । अनेनैवाभिप्रायेणोक्तं योगीश्वरेण--