पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७९

पुटमेतत् सुपुष्टितम्
48
श्रीसरस्वतीविलासे

विवादक्षेत्रजस्त्रीपुंससम्बन्धदायविभागसाहसवाक्पारुष्यदण्डपारुष्यद्यूतप्रकीर्णकान्यष्टादश विवादपदानि । न च वाच्यं निक्षेपादिपदान्तरेषु व्यवहारस्मरणात् लक्षणस्याव्याप्तिरिति । निक्षेपादीनां उपनिध्यादिष्वन्तर्भावात् । अष्टादशविवादपदानां सङ्गतिसङ्ग्रहः कथ्यते । सर्वासु स्मृतिषु प्रामाणनिरूपणानन्तरं अष्टादशविवादपदनिरूपणम् । प्रमाणनिरूपणानन्तरं प्रमेयनिरूपणं न्याय्यमिति तदनन्तरमेव अष्टादशविवादपदाख्यं प्रमेयं तावन्निरूप्यते--

 तत्र ऋणादान एव मानुषदिव्यात्मकसकलप्रमाणसाध्यत्वेन व्यवहारस्य निरूपणात् प्रथमादुद्देशक्रमेण प्रथममृणादानाख्यं विवादपदं निरूप्यते-- अतएवोक्तं मनुना--

"तेषामाद्यं ऋणादानम्" इति ।

 ऋणादाने-उपचयापेक्षया परहस्तदत्तमृणं । तदनपेक्षया रक्षणार्थमेवान्यहस्ते दत्तं द्रव्यमुपनिधिरिति ऋणादानानन्तरमुपनिधेरवसरः । ऋणादाने प्रयुक्तधनादुत्पन्नस्य उपचयस्य एकनिष्ठत्वम् । सम्भूय समुत्थाने स्वनेकनिष्ठत्वमिति ऋणादानानन्तरं सम्भूय समुत्थानस्यैवावसरो न्याय्यः । तथाप्येतत्पदानन्तरमुपनिधिपदस्यावकाशाभावात् उक्तन्यायेन ऋणादानानन्तरमेव उपनिधेः प्रवेश इति पश्चादस्य पदस्यावसरसङ्गतिः ।

 दत्ताप्रदानिकस्य सङ्गतिस्तु आध्युपनिधिचौर्यागतादिद्रव्याणामदेयत्वप्रतिपादनादृणादानोपनिधिसम्भूयसमुत्थानानां शेषतयास्य सम्प्रतिपादनाद्दायविभागशेषताप्यस्ति । तथापि भूयसां न्यायेन त्रयाणां शेषतोक्तेति ध्येयम् । दत्ताप्रदानिके प्रतिश्रुतार्थस्य सोपाधिकत्वे प्रत्यादेयत्वमुक्तम् ।