पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/९६

पुटमेतत् सुपुष्टितम्
65
व्यवहारकाण्डः

"द्विजान्विहाय यः पश्येत् कार्याणि वृषलैस्सह ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश्च नश्यति" ॥

इति व्यासेनोक्तत्वात् । सभ्यान् कुर्वीत व्यवहारदर्शनार्थम् ।

सभ्यजीवनकरणावश्यकत्वम्

यथा सभायां न त्यजन्ति स्थितिं तथा अर्थदानसंमानप्रभृतिभिरुपायैर्नियुञ्जीत । ते च-- श्रुताध्ययनसंपन्नाः धर्मज्ञास्सत्यवदिनः रिपौ मित्रे च समाः सभायां नियोक्तव्याः । देशाचारानभिज्ञान् नास्तिकान् शास्त्रवर्जितान् उन्मत्तान् क्रूरान् लुब्धान्न युञ्जीत । अत्र सभासदः सप्त पञ्च त्रयोऽपि वा कार्याः । अत्र प्राड्विवाकादीनां अर्थार्थितया ऋत्विजामिव सभायत्तत्वमात्रं नाधिकारः । अधिकारस्तु व्यवहारदर्शने राज्ञ एवेत्युक्तम् प्रकरणादौ । अत एव "सप्राड्विवाक" इत्यादिना तस्यैव प्राधान्येन निर्देशः । अत्र व्यवहारदर्शने अभिषिक्तस्य अनभिषिक्तस्य वा क्षत्रियजातीयस्य वा अन्यजातीयस्य वा प्रजापरिपालनादिकर्तुः नृपतेरधिकारः । अत एव--

"व्यवहारान् नृपः पश्येत् विद्वद्भिः ब्राह्मणैस्सह ।"

इति याज्ञवल्क्यः--

"प्रातरुत्थाय नृपतिः शौचं कृत्वा विधानतः ।
गुरून् ज्योतिर्विदो वैद्यान् देवान् विप्रपुरोहितान् ॥
यथार्हमेतान् संपूज्य सुपुष्पाभरणाम्बरः ।
अभिवन्द्य च गुर्वादीन् सुमुखः प्रविशेत् सभाम् ॥"

 इति बृहस्पतिः । यत्त्वभिषेकयुक्तस्य राज्ञो व्यवहारदर्शनं प्रजापतिनोक्तं, तन्न परिसङ्ख्यानार्थम् । अन्यथा 'व्यव

 S.VILASA.
9