पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
सटीकसाङ्रूख्यतत्त्वकौमुद्याम् ।



तानिर्णयस्य विशेषदर्शनविधया आषदकसंशयनिवर्त्तकत्वं वा- च्यम्, तच्च न सम्भवति, तस्याहार्यज्ञानस्याप्रतिबन्धकत्वात् । स- मानधर्मिकत्व्वाभावेनविरोधित्वाच्च । अन्यथा ’वह्निव्याप्यधूमवन्प्र हान सप्रालोकवान्पर्वतः इत्यादिज्ञानस्य ‘पर्वतो वह्निमान्न वा' इत्य- दिसंशयनिवर्त्तकत्वापत्तेः । एतेन तद्वत्ताबुद्धिं प्रति तदभाववत्ता- ज्ञानविशिष्टहेतुमत्ताज्ञानत्वेनैव प्रतिबन्धकत्वाभ्युपगमेन तादृशज्ञान- स्य प्रतिबन्धकस्वं सम्भवतीति परास्तम्, मानाभावाञ्च ।

 'व्याप्त्यंशे निश्चयात्मकम्, आपादकांशे संशयनिश्चयसाधारम्- श्र आपाद्यव्याप्यापादकवत्ताज्ञानं तर्के हंतु:’ इतेि मते च संशयस्य संशयाप्रतिबन्धकतया तेनापादकसन्देहप्रतिबन्धासम्भवात् ॥

 नन्वेवमपि तर्क हेतुरापाद्यव्यतिरेकनिश्चय एवापादकशङ्कां निवर्त्त- यिष्यति आपादकस्यापाद्यव्याप्यतया आषाधव्यतिरेकस्यापादक- व्यतिरेकव्याप्यतया च तन्निश्चयस्य विशेषदर्शनत्वात् ।नचापाद्यव्य- तिरेकनिर्णयस्य तत्र ह्तेत्वे मानभाव इति वाच्यम् । पक्षविशेष्यकापा- द्यशङ्कारूपेष्टापत्तिशङ्कानिवर्तकत्वेन तस्य तत्र हेतुत्ववश्यकत्वात् । इष्टापत्तिशङ्कानिवृत्तिर्माऽस्त्विति तु न शङ्कनीयम् । तर्कस्य विपर्यये ऽपर्यवसानापत्त्या वैयर्थ्यापत्तेः । नचापाद्यव्यतिरेकस्यापादक- व्यतिरेकव्याप्यत्वेऽपि तादृशव्याप्तिप्रतिसन्धानानियमेन तर्क- स्योपयोग इति वाच्यम् । अपाद्ये आपादकव्यापकताज्ञानस्य त- र्ककारणतया ‘कारणज्ञाननियमेनूपाद्याभावे आपदकाभावव्या- प्तिज्ञानभवस्याकिञ्चित्करत्वात् पुरुषत्वाभावे कराद्यभावव्याप्त्य- ग्रहेऽपि करादिव्यापकत्वेन पुरुषत्वदिग्रहसहितपुरुषत्वाद्यभावग्र- हस्य करादिसंशयनिवर्तकत्वादिति चेन्न । तर्ककारणीभूतज्ञानां- शेऽपि तर्कसत्त्वे शङ्कानुपपत्त्यनुरोधेन तर्कस्योपयोगित्वात् । नच पूर्वजातस्यापाद्यव्यतिरेकज्ञानस्य नाशेऽपि तन्मूलकन्मान- सतादृशज्ञानादपादकव्यापकताज्ञानाच्चोत्तरकालमपि शङ्कानुत्पाद-