पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
सटीकसाङ्ख्यतत्वकौमुद्यम् ।



भावविषयतयाऽन्यथासिद्धत्वेन गन्धे रूपप्रागभावस्येव दा- हादिकार्ये तस्य कारणत्वे प्रत्यक्षाद्यभावात् । न च मण्यादेः कार्यानुत्पादप्रयोजकतया तव्यतिरेकस्य कार्यानुत्पादव्यतिरेक- रूपकार्ये प्रयोजकत्वनेयमेनोक्तान्वयव्यतेिरेकयोर्नान्यसिद्ध्- त्वमिति वाच्यम् । अनुत्पादस्य प्रागभावरूपस्यानादित्वेन म- ण्यादेस्तत्प्रयोजकत्वासम्भवे कार्यानुपदस्यग्रिमसमयसम्बन्ध- स्यैव प्रयोजकत्वात् । ननु मण्यादेः कार्यानुपादाग्रिमसमय- सम्बन्धप्रयोजकत्वमपि न सम्भवति कार्यानुत्पादस्याग्रिमसमयेन सम्बन्धानिरूपणात् । तथा हि-किं संयोग उत समवायः । अह स्वरूपम् । नायःउभयोरद्रव्यत्वात् । न द्वितीयःअवयवावय- वित्वाद्यभावात् । तृतीयेऽपि किमेकैकस्वरूपं सम्बन्ध उतोभय- स्वरूपम्, उभयथाऽपि तयोरनादित्वेन तन्निमित्तस्वसम्भवा दिति चेन्न, अखण्डकालस्यानादिवेऽपि अग्रिमसमयस्यौपाधि- कत्वेन सादितया तत्प्रयोजकत्वोपपत्तेः । न च कार्यानुत्पाद- स्याग्रिमसमयसम्बन्धव्यतिरेकः कार्यमेवेति वाच्यम् । कार्यस्य स्वप्रागभावरूपानुत्पदमात्रव्यतिरेकत्वात् । तथा कार्यं स्वनुत्पा दस्याग्रिमसमयसम्बन्धव्यतिरेकसमयमपि ततोऽन्यदेवति न त- द्गोचरावन्वयव्यतिरेकौ न वा पण्याद्यभावोऽनन्यथासिद्ध इति भावः । न चान्वयव्यतिरेकयोरग्रिमसमयसम्बन्धाभावविषय त्वं किमर्थं कल्प्यते । कार्यविषयत्वमेव किं न स्याद्विनिगम काभावादिति वच्यम् । दाहादिकार्यस्य क्लृप्तवन्ह्यादिकार- णादेवोत्पत्तेर्मण्याद्यभावस्य कारणत्वं न कल्प्यते इति लाघव- स्यैव विनिगमकत्वात् । न च वन्ह्यादरेपि न दाहकारणवं क्लृप्तं तदन्वयव्यतिरेकयोर्दाहानुत्पादाग्रिमसमयसम्बन्धाभाववि षयत्वेनान्यथासिद्धत्वादिति वाच्यम् । दाहादिकार्यस्य स्वानु- पादाग्रिमसमयसम्बन्धाभावापेक्षया प्रथमोपस्थितवात् । अभावापे- .