मूल प्रकृतेः । एवमहङ्कारतत्वं तन्मात्राणामिन्द्रियाणाञ्च प्रकृतिः, विकृतिश्च महतः। एवं पञ्चतन्मात्राणि तत्त्वानि भूतानमाकाशदीनां प्रकृतयःविकृतयश्चा- हङ्करस्य ॥
अथ का विकृतिरेव, कियती च ? इत्यत उक्तम्- “षोडशकस्तु विकारः" इति । षोडशसङ्ख्यापरिमितो- गणः षोडशक: । ‘तु' शब्दोऽवधारणे भिन्न- क्रमः-पञ्च महाभूतानि एकादशेन्द्रियाणीति षोडशको- गणो विकार एव, न प्रकृतिरिति । यद्यपि पृ-
महत्तवादियत्किश्चिन्निवेशे तु प्रकृतिविकृतिषु यत्किञ्चिदुपाध्य-
वच्छिन्नजनक्त्वाभावासत्त्वेनाऽव्याप्तेः।
भिन्नक्रम इति विकारोत्तरं सम्बन्धनीय इति भावः । तदेव दर्शयति-पश्चभूनानीत्यादिना । विकारत्वं च-तान्तराजन- कत्वे सति जन्यत्वम् । आद्याविशंपणेन प्रकृतिविकृतिनिरासः । द्वितीयेन पुरुषस्य ।
तत्त्वविभाजकोपाध्यवच्छिन्नाजनकत्वे सति जन्यत्वं विकार- त्वमिति केचित् । तन्न । तस्वविभाजकमूलप्रकृतित्वाद्यवच्छिन्न जन्यताया अप्रसिद्धेः । महत्तत्वादियत्किञ्चिन्निवेशे तु प्रकृतिविकृ- तिषु यजिंकाचदुपाध्यवच्छिन्नजनकत्वभावसत्त्वेनऽतिव्याप्तेः ।
‘कार्योपादानत्वं प्रकृतित्वम्’ इति मनसि निधाय शङ्कते-यद्य- पीति । तथा च विकार एव न प्रकृतिरिति न सम्भवति । पृथि= व्यादीनां घटादिप्रकृतित्वसम्भवात् । प्रकृतिविकृतयः सत्यपि न सम्भवति । पृथिव्यादिविकाराण गोवृक्षादीनां पयोबीजदिजनक- त्वेन तेषामपि सत्त्वादिति भावः । न च पृथिव्यादीनामित्यादिना- ऽपि प्रकृतिविकृतयः सप्तेति नियमभङ्गसम्भवे एवं विकारभेदानामि- त्यादेर्वैयर्थें तदवस्थमेवेति वाच्यम् । द्वादशेस्यादिनियमभङ्गपर-