पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
सङ्क्षेपतः पदाथेनिरूपणम् ।



 अनुभवरूपमाह—" न प्रकृतिर्न विकृतिः पुरुषः" इति । एतत् सर्वमुपरिष्टादुपपादयिष्यते ॥

॥ ३ ॥

 तथाच गोघदादीनां तवन्तरप्रयोजकतत्तदसाधारणशान्तादि- धर्मशून्यत्वाभावात्, बहिरिन्द्रियग्राह्यगुणशून्यत्वाभावद्वा न तत्त्वा- न्तरत्वमिति भावः । प्रयोगस्तु-विमता गोघटादयः पृथिव्यादिभ्यो न तत्त्वान्तराणी , स्थूलत्वात्.बाह्येन्द्रियग्राह्यवात् , शान्तादिधर्मवत्त्वाद्वा , प्रसिद्धपृथिव्यादिवत्, व्यतिरे्के पुरुषवदिति ।

 अनुभयरूपमिति । अनुभयरूपस्वं च-अजनकस्वे सत्य- जन्यत्वम् । ननु 'महत्तत्वमहङ्कारस्य प्रकृतिः इत्यादिनि- यमै पुरुषस्य[नुभयरूपत्वे च प्रमाणभव इत्याशऍग्क्याऽऽह- एतत्सर्वमितिउपपदयिष्यते-तत्तत्पदार्थनिरूपणावसर इति शेषः । उपपादनञ्च क्क्वचिद्युत्या, , क्क्वचित् श्रित्यादिसमानर्थक- पदोपन्यासमात्रेण । तेन क्रमे युक्त्यप्रदर्शनेऽपि न क्षतिः । ननु तन्त्रान्तरसिद्धानां दिक्काळगुणकर्मसामान्यविशेषसमवायाभवनां सत्वेन कथं चत्वर एव पदार्थ इते चेच्छृणु-दिक्वालयोस्तत्तदुप- धिषु गुणकर्मसामान्यादीनां धर्माधर्यभेदादत्रैवऽन्तर्भावात् ।

 []भाष्यकारस्तु-"दिक्कालावकाशादिभ्यः” ( साङ्ख्य०सू०- अ० २ सू० १२ ) इति सूत्रे नित्यौ यौ दिक्कलौ तावकाशप्रकृति- भृतौ प्रकृतेर्गुणविशेषावेव, अतो दिकालयोर्विभित्वोपपात्तिः । ‘आकाशवत् सर्वगतश्च नित्यः" इत्यादिश्रुत्युक्तं विभुत्वञ्चाऽऽका- शस्योपपन्नम् । यौ तु खण्डादिक्कालौ तौ तु तत्तदुपाधिसंयोगा- दाकाशादुत्पद्यते इत्यर्थः , आदिशब्देनोपाधिग्रहणादिति । यद्यपि तत्तदुपाधिविशिष्टाकाशमेव खण्डदिक्कालौ; तथापि विशिष्टस्यातिरि- क्तताऽभ्युपगमवादेन । वैशेषिकनये श्रोत्रस्य कार्यतावत् तत्कार्यत्वं




 १ साङ्ख्यभाष्यकारा विज्ञानभिक्षवः ।