तत्रोक्तम्, इति विशेषमाहुः । गर्भमैत्रेयोपनिषदादिषु-'अष्टौ प्रकृतयः षोडशविकारः’ इत्यादिना तथैव व्युत्पादनाच्च । ननु दिकल्लयोस्त- तदुपाधावन्तर्भावो न सम्भवति । तथा हि-स्वजन्यविभागप्रागभावा- वच्छिनं कर्म, स्वजन्यविभागनाश्यपूर्वसंयोगविशिष्टजन्यविभा- ग: , स्वजन्यविभागजन्यपूर्वसंयोगनाशवच्छिन्नस्यजन्योत्तर- संयोगप्रागभावः, उत्तरदेशसंयोगावच्छिन्नं कर्मेत्यादिक्षणादि- घटितदिव समासादिवैचित्र्यनिर्वाहकतपनपरिस्पन्दादिरूपाः । ते च ‘इदानीं घटः’ ‘अष्टार्विंका ब्राह्मणाः’ इत्यादिप्रतीतौ विशेषणत्वेन भासन्ते । अत्र तपनपरिस्पन्दाः घटादिविशेष्यकस्वविशेषणकधीजनक- प्रयासत्तिमन्तः घटादिविशेष्यकविशिष्टधीजनकविशेषणत्वात्, थटादि- रूपवत्, इत्यनेन तत्सम्बन्धसिद्धिः । सच न समवायः बाधात्। नाऽपि स्वाश्रयसंयुक्तसंयोगिसमवायःतद्धटकपृथिव्याद्यभावात् । नापि स्वाश्रयसंयुक्तसमवायः, तपनपिण्डयोरसंसर्गात् । न चाऽहस्करकर- निकर एत्र तथा । तदभावेषि गृहनिखतपदर्थेषु मासाद्यवच्छेदात् । तथा चोपाधीनां बहुतरतपनपरिस्पन्दादीनां परम्परासम्बन्धाभावे साक्षात्सम्बन्धानुपपत्त्या तत्सम्बन्धघटकस्तदतिरिक्तः कालोऽवश्य मभ्युपेयः। जेष्ठे परत्वप्रत्ययः, कनिष्ठे चापरत्वप्रत्ययोऽयमस्मात्परो- ऽयमस्मादपर इति । स च परत्वापरत्वगुणविशेषाधीनः । परत्वापरत्वे सासमवायिकारणके, भावकार्य्यत्वात् । असमवायिकारणं च तस्य का-. लपिण्डसंयोग एव,इत्यतोपि परत्वापरत्वासमवायिकारणसंयोगाश्रय- तया कालोऽवश्यमभ्युपेयः। न च पिण्डगतरूपादेरेव परत्वापरत्वासमव- यिकारणत्वमस्त्विति वाच्यम् । कालिकपरत्वापरत्वयोर्वायावुत्पत्या व्यभिचारात् । अत एव पृथिवीपिण्डसंयोगस्यापि न तत्र कारण- त्वम् । पृथिव्यसंयुक्तपदार्थेऽपि तदुपादेन व्यभिचारात् । न चा- ऽऽकाशदिगात्ममनोभिः पिण्डसंयोगस्य तथात्वमस्त्विति वाच्यम्। आकाशादिसंयोगस्य तथात्वे जीवस्मभिः प्रत्येकं विनिगमना-