पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
सङ्क्षेपतः पदार्थानिरूपणम् ।



विरहात् आत्ममनसोस्त्वनन्तत्वात् । एवं यदपक्षयोदयाचल- संनिहितो य देशः स तम्प्रति प्राची । यदपेक्षयाऽसंनि- हितो यो देशः, यदपेक्षयाऽस्ताचलसंनिहितो व देशः सा तम्प्रति प्रतीची । एवं यदपेक्षया सुमेरुसन्निहिते यो देशः सा तम्प्रति उदीची । तद्व्यवहितात्ववाची । यदपे- क्षयोदयाचलसन्निहितत्वं च-तन्निष्ठोदयाचलसंयुक्तसंयोगापेक्षयो- दयाचलस्ंयुक्त संयोगाल्पीयस्त्वम् । असन्निहितत्वञ्च भूयस्त्वम् । निशावसानहेतुसूर्यसंयोगवत्वमुदयाचलस्त्वम् । निशाकारणीभूतसू र्यसंयोगवत्वमस्ताचलत्वम् । देशश्च सूर्यादिनिष्ठतत्तसंयोगः, नतु मूर्तम् । तत्रापीदं प्राच्यामित्यादिव्यवहारात् । अन्यथा तत्सम्बन्धस्य घटादौ सिद्धत्वेन दिगसिद्ध्यापत्तेश्च । इत्थञ्च सूर्यादिगतानां त- त्तत्संयोगरूपोपाधीनामुक्तरीत्य परम्परासम्बन्धाभावे साक्षात्सम्ब- न्धानुयपत्या तत्सम्बन्धघटक दिगवश्यमभ्युपेया । एवं संयुक्त संयोगाल्पीयस्त्वभूयस्त्वविषयकापेक्षाबुद्धिजन्यपरत्वापरत्वासमवा- यिकारणसंयोगाधिकरणतयाऽवश्यमभ्युपेया । ननूपाधीनामननु- गतत्वादनुगतप्राच्यादिव्यवहारो न स्यादिति चेन्न । तत्तत्प्राच्यादि- व्यवहारस्यऽनुगतस्वात् । न चाऽऽकाशस्य सूर्यक्रियापीयस्यादि- विषयकापेक्षाबुद्धिजन्यपरत्वापरत्वासमवायिकाणश्ंयोगाधिकरणत्वं क्रियाया अत्रोपाध्युन्नायकत्वम्, संयुक्तसंयोगाल्पीयस्त्वभूयस्व- विषयकापेक्षाबुद्धिजन्यपरत्वापरत्वासमवायिकारणसंयोगाधिकरणत्वं च संयोगोपाध्युन्नायकत्वरूपं तत्तदुपाधिसम्बन्धघटकवं सम्भवती- ति वाच्यम् । जीवत्मभिर्विनिगमनाविरहस्योक्तत्वात् । किञ्चाSऽका- शं न तत्तदुपाधिसम्बन्धघटकं, विशेषगुणवत्वात्त्, पृथिवीवत् । न चाऽत्राऽव्यापकत्वमुपाधिः। सकलभूर्त्तसंयोगित्वाभावरूपस्यऽव्य- पकत्वस्य पक्षमात्रव्यावर्तकसकलमृर्त्तपदविशेषणकत्वेन पक्षेतरत्व- वदनुपाधित्वात् । एतेन ‘अत्र मूर्तत्वमुपाधिः’ इति | परास्तम् । अ-