पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
सटीकसाङ्ख्यतत्वकौमुद्यम् ।



परिणामे मानाभावः जीर्णतरादिबुद्धेरेव मानत्वात् । परत्वापरत्वा- समवायिकारणसंयोगाधारतयाऽपि न कालसिद्धिः। ‘कुतः ? इति वदतस्तव कोऽभिप्रायः-परत्वापरत्वे कालपिण्डसंयोगेगासमवायि- कारणके,उत सासमवायिकारणके,जन्यगुणत्वात् भावकार्यत्वाद्वेति ? नाऽऽद्यःकालाप्रसिद्धया साध्याप्तसिद्धेः। रूपाद्यसमवयिकारणकस्य मूर्त्तवृत्तेः रूपाद्यात्मकतावत् तदात्मकतापत्तेः संयोगासमवायिकारण - कस्य संयोगतिरिक्त्तस्य मूर्त्तवृत्तेर्द्रव्यत्वनियमेन तयोर्द्रव्यत्वापत्तेश्च । न द्वितीयः । क्रियासमवायिकारणकात्प्रचुराप्रचुरपरिणामन्तरि- तजन्मत्वादतिरिक्तपरत्वापरत्वयोर्मानाभावेन परिशेषासिद्ध्या का- लासिद्धेः । अन्यथा परत्वापरत्ववत् मध्यमत्वस्यापि गुणान्तरत्वा- पत्तेः । ज्येष्ठे तादृशजन्मत्वं च-कनिष्ठत्वाभिमतव्यक्तजन्माधि- करणप्रधानपरिणामरूपक्षणकूटवृत्तिध्वंसप्रतियोगिप्रधानपरिणामक्ष- णवृत्तिजन्मत्वम् । कनिष्ठे च-तदर्धकरणप्रधानपरिणामक्षणध्वंसा- धिकरणोक्तक्षणवृत्तिजन्मस्वम् । न चैवं 'इदनीमयमेतस्मात्पर’ इति वर्तमानपरत्वप्रत्ययानुपपत्तिः, जन्मत्वस्याऽतीतत्वादिति वाच्यम्। तथा सति 'इदनीमयं घटो न तदनम्’ इत्यादिवत् 'इदानीम् रामः कृष्णात्परो न तदानीम् इत्याद्यापत्तेः । यदि ‘इदानीं घटः’ इत्या- दिप्रतितेस्तरणिस्पन्द एव विषयः,परत्वाअपरत्वप्रतीतेश्च प्रचुरा- प्रचुरतरणिस्पन्दान्तरितजन्मत्वमिति मतम् ,तदऽपि प्रधानद्वाराऽपर- जन्मावच्छेदकतरणिस्पन्दवृत्तिध्वंसप्रतियोगितरणीस्पन्दवृत्तिजन्म- त्वमुक्तजन्मत्वं बोध्यम् ।

 सौगतास्तु-विशेषणता | विषयविषयिभावो वा कालाख्यः साक्षादेवव पिण्डसूर्यस्पन्दयोः सम्बन्धोऽस्तु कालस्य द्रव्यत्ववे तद्व्या- पकसंख्याद्यनेककल्पनापेक्षया लाघवत् । उक्तसबन्धेन पर- त्वाद्यव्यवहिततराणिकर्मणः पिण्डगतसङ्ख्यया वाऽसमवायिहेतु- तया, अपरजन्माऽपेक्ष्य प्रचुरकर्मापेक्षाबुद्धेर्निमिततया च परिशे-