पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१ ० ०
सटिकसाङ्ख्यतत्वकौमुद्याम्



करोति’ इत्यादौ च चिरत्वम् --बहुतरसूर्यगत्यवच्छिन्नत्वम् , क्षि- प्रत्वम्-अल्पतरमूर्यगत्यवच्छिन्नत्वं कालं विनापि निर्वहति, रश्मिसम्बन्धस्य सम्भवादित्याहुः । एवं गुणादिप्रागभावच्छिन्नं- द्रव्यं क्षणः । कायेप्रागभवोपहित सामग्री क्षण इति वा । ननु कारणप्रागभावानाधारः कायेप्रागभावधारः क्षणः सामग्री इति, क्षणगर्भं सामग्री लक्षणम् , सामग्रीगर्भं च क्षणलक्षणमित्यन्योन्याश्रय इति चेन्न । सामग्रीपदस्य चरमकारणपरत्वात् ।


 क्षणद्वयं लवः । अक्षिपक्ष्मसंयोगनिमित्तमेकं कर्म निमेषः ।
 अष्टादश निमेषाः स्युः काष्ठा, त्रिंशत्तु ताः कलाः ।
 मुहूर्तयामादयः प्रसिद्धा एत्र ।


 एतद्भूखण्डवृत्तिरविरश्पिसम्बन्धोऽत्र दिनम् । दिनसामान्यस्य लक्ष्यत्वे एतद्भूखण्डवृत्तिरविरश्मिसत्वकालनिर्द्वीपान्तरीयरात्रावतो- व्यप्तिप्रसङ्गात् । भूखण्डे रवेरसत्वाद्रश्मिपदम् । रात्रावपि चन्द्रादीनां रश्मिसत्वादसम्भववारणाय रवीति । न च रात्रावपि वालुकादौ प्रतापादिकार्यदर्शनेन रविरश्म्यनुवृत्तिकल्पनात्तत्रातिव्याप्तिरिति वाच्यम् । रश्मिपदस्य ’ प्रकृष्टमहत्वोद्भूतरूपवत्तेजःपरत्वात्त् ।

 एतद्भूखण्डवृत्तितादृशतेजः सामान्याभावोऽत्र रात्रिः। रात्रि- सामान्यस्य लक्ष्यमुखे तद्भूखण्डवृत्तिरविरश्मिसत्वकालीनद्वीपान- रोयरात्राव्याप्तिप्रसङात् । न च दिवसेऽपि द्वीपान्तरवच्छेदेन तादृशसामान्यभावसत्वादिव्याप्तिरिति वाच्यम् । निरवच्छिन्नता- दृशसामान्याभावस्य विवक्षितत्वात् । रात्रावपि द्वीपान्तरद्यात्तिरविर- श्मिसत्वेनाऽसम्भववरणाय-एतद्भूखण्डवृतीति * । रात्रावपि त्रस

 * इदमुपलक्षणम् । रात्रावपि चन्द्रादिग्रहवृतिरविरश्मिसत्त्वादस - म्भववारणाय तदुपात्तमिति ध्येयम् । रविरश्मिभिरेव खलु चन्द्रादीनां दीप्तिर्ज्ज्योतिः शास्त्रसिद्धा । दृषटौहि यदाहे रविचन्द्रयोर्मध्ये पृथिवी समागच्छति तदोपरागव्थवहारोलोकानमितेि सुधीभिर्विभावनीयम् ।