र्द्ध्रात्रोपावेः सूर्यस्पन्दविशेषस्य सूर्येणैव, सांख्यमते च ‘अजामे- काम्’ इत्यादिश्रुतिस्मृतिसिद्धप्रधानेनैवोपपत्तौ अतिरिक्तकालकल्प- नाय आभासत्वाद । विमतं तरणिपरिस्पन्दसंसर्गघटकं न भवति, विशेषगुणशून्यवत् , मनावत् , *विशेषगुणशून्यत्वं तरणिपरि- स्पन्दसंसर्गघटकवृत्त न भवति, विशेषगुणशून्यमात्रवृत्तिवान्मनस्व- वत्, इत्यादिविरोधाच ॥
"एतेन दिगपि व्याख्याता, तस्या अनध्यक्षत्वादलिङ्ग- त्वञ्च् । 'प्राचयां घटः’ इयादिप्रत्ययानां निरुपाधिदिगाव- लम्बनत्वे दिशां दशविधत्वप्रसंगेन ’नवैव द्रव्याणि’ इति व्यघा- तात् * । न चात्मत्वेनाऽऽत्मनां सङ्ग्रहवद्दिशामपि दिक्त्वेन सङ्ग्रहाद-- दोषः शब्दलिङ्गनामपि भिन्नतया तरकारणाकाशस्याऽप्यान- न्त्य प्रसङ्गात् , आकाशत्वेन सङ्ग्रहस्य तत्रापि तुल्यत्वात् । न च तथैवाऽस्तु, को दोष इति वाच्यम् । "आकाशकालादिशामेकैक- त्वदपरजात्यभावे पारिभाषेिक्यस्तास्ताः संज्ञा आकाशं कालो दिक्" इति[१]भाष्यविरोधात् । उपाधिदिगावलम्बनत्वे तु तेनैव प्रत्यया- नामन्यथासिद्ध्या दिगसिद्धेः। न च सुराशिखरिणि शिखरपरिभ्र- मन्मार्त्ताण्डमण्डलनेिशवसाने हेतुभूतप्रथमसंयोगाद्युपाध्युपधानेन प्रा- च्यादिव्यवहारस्योपपन्नत्वेऽपि "मथुरातः प्राच्यां प्रयाग” इत्यादि- व्यवहारानुपपत्तेःमार्त्ताण्डगतानां संयोगो पाधीनां प्रयागे सम्ब- न्धाभावादिति वाच्यम् । ‘मथुरातः प्राच्यां प्रयाग' इत्यादौ मथु-
*सत्कार्यमतेऽस्रतोऽलीकस्याऽप्यङ्गीकारेण तम्मनुसारेण पूर्वमसद्रूपं
विप्रतिपत्तिविषयं कालं पक्षीकुत्याऽनुमानमुपन्यस्तम् । अलीकानङ्गी-
कर्तुनैयायिकमतेन एतादृशवस्तुनः सिद्धसिद्धिपराहतत्वेन तथा सा-
धनसम्भवादनुमानन्तरमुपन्यस्तमिति वेदितव्यम् ।
*दशसङ्ख्यया सह नवसङ्ख्यामेलने एकोनविंशतिसङ्खयायनिष्पा- द्यमानतया द्रव्यणां निरुक्तसङ्ख्याकत्वपतिरिति भावः ।
१ प्रशस्तपद (वैशेषिक) भाष्यम् । (द्रव्यग्रन्थे आकाशनिरूपणम्)
- ↑ १