मात्रकारणतया तत्राऽतिव्याप्तिस्तदवस्थैत्र,तथाऽपि विलक्षणासम- वायिकारणत्वमत्रस्य विवक्षितत्वान्न दोषः । अन्योन्याश्रयदोषस्तु [१]पूर्वोक्तरीत्याऽत्राऽपि निरसनीयःन चैत्रमपि मध्यदेशस्योर्द्ध्वा- धिकोर्द्ध्व्त्वमधोवधिकाधस्त्वं स्यात्, उक्ततल्लक्षणयोगादिति वाच्यम् । तद्धेशावस्थततदृशवन्क्रियाजन्यसंयोगश्रियत्वं तदवधेकोर्द्ध्वत्वम् तद्देशावस्थितपतनजन्यसंयोगाश्रयवं तदघधिकमधस्त्वमित्यननु गतस्यैवोर्द्ध्वत्वादेर्विवक्षितत्वात् । एतेन ‘यद्यद्देशे वन्ह्यादेरसत्वमज्ञानं वा तत्र तादृशव्यवहारानुपपत्तिः तद्यग्यताया दुर्वाचत्वाञ्च’ इति परास्तम् । अननुगततादृशपृथिवीत्वादेर्योग्यतात्वात् ।
खण्डनोद्धरे वाचस्पतिमिश्रास्तु--यत् यदपेक्षया गुरुत्त्रसम- वायिकारणकक्रिय्याजन्यफलाश्रयःतत् तदपेक्षया अध इति । सूर्यापेक्षया भूः, तदपेक्षया पातलम् , तदपेक्षया नरकः, तदपेक्षया गर्भोदकमित्यादि यथाक्रममधः । एतत्प्रतिलोममृद्धवम् । उभयरूपाश्रयो मध्यमिर्यादीत्याहुः । मथुरापाटलिपुत्रोभयापेक्षोभयश्रितपरस्पराव- धिकसंयुक्तसंयोगाल्पीयःसंयुक्तसंयोगाश्रयत्वं मथुरापाटलिपुत्रोभ- यापेक्षमपरत्वमेव मध्यत्वम् । ‘दशरथस्य रामलक्ष्मणयोर्मध्यमोऽयं भरतः पुत्रः इत्यत्र रामलक्ष्मणोभयजन्मवच्छेदकपरस्परस्पन्दा वधिकोत्तरपूर्वस्पन्दावच्छिन्नजन्मत्वं उभयजन्मनिरूपितापरत्वमेव मध्यत्वम् । अथ व रामलक्ष्मणजन्मावच्छेदकपरस्परक्षणवृ- तिप्रागभावप्रध्वंसाभावप्रतियोगिक्षणावच्छिन्नजन्मत्वम् । इत्थं च परत्वापरत्वयोर्गुणान्तरत्वाङ्गीकारे मध्यत्वस्याऽपे तचापकत्वात्त- दापात्तिरावश्यकी, यतः ‘इदमनयोरन्तरालम्’ इत्यत्रैकैकावध्यपेक्षया ऽवध्यन्तरे संयुक्तसंयोगादिभूयस्त्वबुद्धावन्यत्राऽपि संयुक्तसंयोगाद्य- ल्पीयस्त्वमतेरावश्यकत्वात् । न च परत्वापरस्वाभ्यामेव निर्वाहः। मध्यस्वस्योभयसापेक्षत्वेनैकैकसापेक्षपरत्वापरत्वाम्यां विलक्षणत्वात्
१ अधस्त्वलक्षणनिर्वचनसमयोक्तरीत्या ।
१४
- ↑ १