पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
सङ्क्षेपतः पदार्थनिरूपणम् ।



 दिधितिकृतास्तु—विशेषगुणशून्य- स्वाश्रयाधिकरण-नि- ष्टान्योन्याभावप्रतियोगितावच्छेदकविशेषगुणशून्य—वृत्तिवृत्तीत्यर्थ इत्याहुः [१]। अत्राऽपि दिगाद्यासिद्धिनिबन्धनदोषनिरसाय दिगा- दिसिद्धिरावश्यकी । तारतम्येस्यादेरनियावृत्तिपरिमाणवृत्तिजाति- त्वात्, निस्यपरिमाणवृत्तिजातित्वाद्वेत्यत्र तात्पर्यम् । समवायरूप- वृत्तिलाभाय-जातीति ।

 तत्तदणुत्वत्वादौ व्यभिचारवारणाय-जातीत्यन्ये ।

 [२]एवमप्येकैकदिगदिसिद्ध्याऽर्थान्तरं तदवस्थमेव[३]। न च जा- तित्वानुपपत्त्या नाऽर्थान्तरमिति वाच्यम् । ईश्वरादेर्महत्परिमाणान्या- दय जातित्वोपत्तेः । न च मूलेऽनेकेति निवेशादत्रयमपि परिमाण- पदमनेकसत्वेन विशेषणीयमिति वाच्यम् । अनेकत्वं यद्येत्वानधिक- रणत्वात् ,तदा सिद्धसाधनात् ,अनेकसङ्ख्याधिकरणत्वे तु बाधात् । न च दीधितिकृन्मते एकैकदिगादिसिद्ध्यर्थमेवेदमिति वाच्यम् । विशेषगुणशून्यस्खाश्रयाधिकरणाप्रसिद्ध्या साध्याप्रसिद्धेः । न च । मुक्तात्मादि तथा, तदादायाऽर्थान्तरानिवृत्तेः। किं च[४] स्वपदस्य परममहत्परिमाणत्वपरत्वे दृष्टान्तसिद्धिः, अणुपरिमाणत्वपरत्वे बाध इति ।



 ( १) विशेषगुणशून्यं यत् स्वाश्रयाधिकरणं दिक् , तन्निष्ठो यो
  कालवृत्तिपरिमाणवत्प्रतियोगिकभेदः, तत्प्रतियोगितावच्छेदकं यस्काल-
  वृत्तिपरिमाणं तद्वृत्तीत्यर्थः । अनेनाऽपि कालदिर्शोभेदः सिद्द्यतीति भावः ।

 (२) खण्डयति-एवमपीत्यादिना ।

 (३) लीलावतीकृद्भिः पूर्वपरादिप्रत्ययभेदेन दिशः, अती-
  तानागतादिप्रत्ययभेदेन च कालस्याऽनेकत्वं स्वीक्रियते । तन्मते
  उक्तानुमानेन कालादिशोर्मेदसिद्धवपि उक्तानुमानसाधनीयस्य दिगा-
  देरनेकत्वस्याऽसिद्धेरर्थान्तरतेति भावः । दिगादिसाधनं तु पूर्वापरादि-
  प्रत्ययेनैव तैः क्रियत इत्यवधेयम् ।

 ( ४ ) स्वत्वस्यानुगतत्वमनभ्युपेत्येदम् ।