‘अनुमानोपनीतः[१] कालः प्रत्यक्षे भासते' इति मते चरमं कालसधकमनुमानमाह-विवादेति । दिगन्यत्वेन साध्यविशेषणान्न सिद्धसाधनमिति वर्द्धमानोपाध्यायाः[२] ।
[३]कालसधने दिगन्यत्वनिवेशवत् दिक्साधनेऽपि कालान्य- वनिवेशे न कश्चिद्दोष इत्यपरे ।
[४]कालभिन्नत्वेन दिक्सधने दिभिन्नत्वेन च कालसाधने अन्योन्याश्रयःदिगाद्यन्यत्वानिवेशे चैकद्रव्यसिद्ध्याऽर्थान्तरापत्ति- रित्यन्ये ।
अव्यापकद्रव्यमात्राभिधाने मनःसंसर्गेण सिद्धसाधनं स्यादतः- विवदध्यासितनीति । मनोऽसंसर्गिणीत्यर्थः ।
[५]अत्र केचिन्–विशेषगुणशून्यैकद्रव्यमात्रसंसर्गित्वे साध्ये विशेषणाप्रसिद्धिः । तादृशैकैकद्रव्यसंसर्गित्वे साध्ये मनः सं सर्गित्वेन सिद्धसाधनम् । न च मनःसंसर्गराहित्यस्य पक्षता- वच्छेदकस्वादिदमसङ्गतमिति वच्यम् । तन्निश्चयकाभावेनाऽज्ञान-
( १ ) ज्ञानलक्षणप्रत्यासत्त्येत्यर्थः
( २ ) इदमत्र तात्पर्यम् । लीलावतीकृता दिक्कालयोः प्रसाधने
तावत्प्रत्यक्षेणैव कृतम् । तत्र कालस्याऽप्रत्यक्षत्वाङ्गिकर्त्रुक्तमते
कालसाधनाय ‘विवाद-' इत्यादिकमनुमानं तैरुपन्यस्तम् । तत्र च
दिशमादय सिद्धसाधनात् दिगन्यत्वेन साध्यं विशेषणीयमिति । दिक्
च पूर्वं प्रत्यक्षेण प्रसाधितेति भावः ।
( ३ ) कालवद्दिशोऽप्यप्रत्यक्षत्वद्दिशः प्रत्यक्षेण प्रसाधनमनुचितमिति वदतां
केषाश्चिन्मतम।ह-कालेति । तथा च काळनुमाने दिगम्यत्वं, दिगनुमाने
च कालन्थत्वं विशेषणं दत्वा कलदिशौ प्रागुक्तानुमानेन प्रसाधनीयाविति तद्दृदयम् ।
(४) वर्द्धमानोपाध्यायोक्त्यनुसारेण कालस्याऽप्रत्यक्षत्वं, दिशः प्रत्यक्षत्वं च स्वीकृत्यैव ग्रन्थः
सङ्गमनीय इति वदतां तदनुसारिणां मतमाह-कालेति ।
(५) तदेतत्खण्डयति-अत्रेत्यादिना ।