पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
सङ्क्षेपतः पदार्थनिरूपणम् ।



रूपाश्रयासिद्धेः । न च मनसां शरीराद्यवच्छेदेनाऽवस्थाननि- श्रयाद्घटादौ तदसंसर्गित्वनिश्चयः सुलभ एवेति वाच्यम् । मु- क्तमनसामपि सम्भवेन तथा नियमासम्भवात् । यत्कि-. श्चिदेकमनःसंसर्गराहित्यस्य च तथात्वे मनोन्तरसंसर्गमादाय सिद्धसाधनतादवस्थ्यात् । न च विशेषगुणशून्यदिगन्यद्रव्यसंसर्गेि- त्वमात्रं साध्यम्, [१]लाघवाञ्चैककालसिद्धिरिति वाच्यम् । नाना- त्वेऽपि मनसां क्लृप्तत्वेनैकत्वलाघवस्याऽकिविञ्चित्करत्वादित्याहुः ।

 प्रत्यक्तत्त्वप्रदीप चित्सुखाचार्य्यास्तु 'तदयुक्तम् । अन्तरेणाऽपि दिक्कालौ व्यापकपञ्चाशद्वर्ण [२]द्र्व्यप्रसाधनेनाऽर्थान्तरत्वात् । वेदा-- न्तिनं प्रति दृष्टान्तस्य साध्यविकलवाञ्च । मनसो विशेषगुणशून्यवे हैि तद्गताणुत्वस्य विशेषगुणविधुरद्रव्यार्धकरणकनेकव्यक्तिवृत्ति- त्वम् , आत्मनश्च युगपद्विशेषगुणशून्यद्रव्यसंसर्गित्वञ्च भवेत् , तञ्च वेदान्तिनं प्रत्यसिद्धम्, मनसोऽपि विशेषगुणवात् । न च तत्र मानाभावः, मूत्वस्यैव तत्त्वात् । न च विशेषगुणवत्त्वे द्रव्यारम्भकत्वमुपाधिः घटादिष्वन्यावयविषु व्यभिचरात् । न च द्रव्यारम्भकवृत्ति द्रव्यत्वावान्तरजातिमत्त्वमुपाअधिः आत्मकाश- योर्व्यभिचारात् । न च बाह्येन्द्रियग्राह्यविशेषगुणवत्त्वम् , भवदभि- मतात्मनि व्यभिचारात् । न वा भूतान्मनोरन्यतरत्वमुपाधिः वेदा- न्तिनं प्रति तमसि सध्याच्याप्तेः । “‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिर्ह्रीभिर्धरित्येतत्सर्वं मन एव" इति मनसो विशेष गुणवत्त्वश्रुतेश्च । न च कामादीनां निमित्तकारणत्वान्मनसस्तथा व्यपदेशःमुख्ये बाधकाभावात् । निमित्तनैमित्तिकत्वमात्रेण सा- मानाधिकरण्यश्रवणानुपपत्तेश्च । न हि भवति ‘कुलालो घटः’ इति




  १ नन्वेवं मनःसंसर्गमादाय सिद्धसाधनमित्यत आह-ला-
  घवदिति । अनन्तमनःसंसर्गकल्पनापक्षेयेत्यर्थः ।

  २ वेदान्त्यादिकानां मते शब्दस्यद्रव्यत्वमितिभवः ।