प्यनुमानानि सुधीभिर्विभावनीयानीति ।
ननु धमेधर्म्यभेदङ्गीकारे चक्षुषा धर्मिणि गृह्यमाणे धर्म्यभिन्न- त्वात्सर्वधमणां स्पर्शादीनामपि चक्षुषत्वापत्तिरिति वाच्यम् । धर्माणां तत्सम्बन्धस्य च पृथकूजन्मननुभवेन पारतन्त्र्यानुपपत्त्या च ‘शुक्लो घटः’ इत्याद्यभेदप्रतीत्या चाऽभेदे सिद्धे रूपदेश्चक्षुरादिग्राह्य त्वनियमकल्पनेनोक्तदोषाभावात् । धर्मधर्मिणोर्भेदवादिमतेऽपि यो- ग्यव्यक्तिवृत्तिधमेत्वेन गन्धादेरापि चक्षुर्योग्यत्वाञ्चाक्षुषत्वारणाय तन्नियमस्याSSवश्यकत्वाञ्च् । स्वरूपसम्बन्धेनैवोपपत्तौ समवायाक- ल्पनमयुक्तलाघवाञ्च ।
समवायलक्षणप्रमाणयोरभावञ्च । नथा हि-न तावत्स- मवायत्वं जातिः, तदेकत्वपक्षे तदयोगात् । नानात्वपक्षेऽपि सम्बन्धाभावेन समवाये जातेरयोगात् , सम्बन्धाङ्गीकारे चाऽनव- स्थानात् । नाऽपि नित्यसम्बन्धत्वम् , जन्यसमवायपक्षे तदसम्भवा- त् । नित्यसमवायपक्षेऽपि वाच्यवाचकभावसम्बन्ध, ईश्वरज्ञानपर - माण्वादिसम्बन्धे विषयताख्येऽतिव्याप्तेश्च, स्वरूपसम्बन्धातिव्याप्तेश्च। अत एवाऽयुतसिद्धत्वादिकमपि परास्तम् । न च सम्बन्धिभिन्नत्वेन विशेषणीयमिति वाच्यम् । समवायस्याऽपि स्वात्मकस्वरूपसम्बन्धि स्वेनाऽसम्भवात् । नानवपक्षे चऽननुगतत्वाञ्च [१](१)। स्वपदस्य[२] समवायपरत्वेन स्वलक्षणं स्वस्य निवेशेऽन्योन्याश्रयाञ्च । यत्तु--
‘तावेवाऽयुतसिद्धौ द्वौ विज्ञातव्यौ ययोर्द्वयोः ।
अवश्यमेकमपराश्रितमेवाऽवतिष्ठते-
इति ।
अस्य चऽयमर्थः -ययोरेकं स्वनाशपूर्वक्षणपर्यन्तमपराश्रित- मेव तिष्ठति, तस्वमयुतसिद्धत्वम् । तन्तुनाशात्पटनाशस्थले ना- शक्षणे पटोऽनाश्रित एव तिष्ठति, तत्राऽव्याप्तिवारणाय स्वनाशकपू-
१ समावायत्वस्येत्यर्थः ।
२ स्वभिन्नसम्बन्धिभिन्नत्वेन विशेषणीयत्वइयर्थः ।