पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
सटीकसाङ्क्यतत्वकौमुद्याम् ।



वीक्षणपर्यन्तनिवेश इति,

 तन । घटत्वजातेरीश्वरतज्ज्ञानयोरात्मामत्वयोर्नित्यद्रव्यविशे- षयोर्नित्यत्वेन स्व नाशाप्रसिद्ध्याऽव्यतेः । जन्यस्य नाशपर्यन्तं दिकालयोः सस्वेन तयोः, आत्मसुखादिप्रागभावयोश्चाऽतिव्याप्तेः । चक्रे एवोत्पन्नविनष्टघटस्य चक्रण सह, भूतलादवेवोत्पन्नविनिष्ट- खण्डपटादीनां भूतलेन सहएवमन्यत्राऽप्यतिव्याप्तेश्च ।

 महादेवपुणतानकरास्तु-विशेषणतान्यसाक्षासम्बन्धेन स्वाश्र याश्रयिभावव्याप्यस्योभयकालकत्वमयुतसिद्धव[] । तन्तुपटादी- नां यदा कालस्तदा तेषामाश्रयाश्रयिभावनियमेन तदुभयकालस्य तद्व्याप्यत्वमस्तीति लक्षणसमन्वयः । न त्वेवं तुरीपटादीनाम् , इति न तत्राऽतिव्याप्तिः। पटोत्पत्तिपूर्वं तन्तुसत्वात्तदानीमाश्रयाश्रयिभा- वासत्वेनाऽसम्भववारणाय-उभयेति । चक्रपटभयकाले यत्किञ्चि- दाश्रयाश्रयिभावसत्त्वादतिप्रसङ्गवारणाय -स्वेन्युक्तम् । वायुरूपाभा- वादीनां तद्वारणाय-विशेषणतान्यसम्बन्धेनेति । अत एव कालदि- शोर्घेटादिना नाऽयुतसिद्धत्वम् । विशेषणातान्यसम्बन्धेनऽऽश्रयाश्र- यिभावविरहात् । चक्रे एवोप्तन्न्विनष्टघटादेश्चक्रेण स्वसंयुक्तकपाल- समवेतत्वसम्बन्धेनऽऽश्रयाश्रयिभावसत्त्वादतिप्रसङ्गवारणाय-साक्ष- दितीत्याहुः,

 तन्न । व्याप्यव्यापकतायाः कालिकसम्बन्धावच्छिन्नया निवेशे घटभूतलाधिकरणतरणिपरिस्पन्दरूपखण्डकालाधिकरणे महाकाले कालिकसम्बन्धेन घटभूतलाश्रयाश्रयिभावस्याऽपि सत्त्वेनाऽतिव्या- प्तेः । घटभूतलाधिकरणमहाकालोपादाने कालिकसम्बन्धेन तद- धिकरणाप्रसिद्ध्याऽसम्भवापत्तेः । न च यद यदा घटभूतला- धिकरणखण्डकालस्तदा तदाऽऽश्रयाश्रयिभावाभावेन नाऽतिव्याप्ति-



  १ स्व।श्रयाश्रयिभावम्याप्यः-स्वोभयकालो यस्य स्वस्य- येन

  स्वेन निरूपितः, तत्त्वमित्यर्थः ।