पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
सङ्क्षेपतः पदार्थनिरूपणम् ।



दीयत्वानुभवप्रसङ्गात्, असत्ख्यातिप्रसङ्गाञ्च[१][२]असत्येव स- स्म्बन्धे सम्बन्धिभ्यां निरूपणात्[३] तदीयत्वव्यवहारे जातावपि स- म्बन्धमन्तरेण व्यक्त्या[४] निरूपणात्तदीयवव्यवहारप्रसङ्गइस्याहुः।

 न च ‘शुक्लो घटः, इह कपाले घटः इत्यादिप्रत्ययः विशेषणविशेष्य- सम्बन्धविषयाः, विशेष्टप्रत्ययवात्, दण्डीपुरुषः, इह कुण्डे बदराणी- तिप्रत्ययवदित्यनुमानमिति वाच्यम् । स्वरूपसम्बन्धेनाऽर्थान्तरत्वात् । स्वरूपातिरिक्तेति विशेषणदाने चाऽभावविशिष्टबुद्धौ व्यभिचारात् । न च । स्वरूपाणामानन्त्ययेन गौरवेण लाघवादेक एव सम्बन्धः सिद्धयति, स एव च समवय[५] इति वाच्यम् । धर्मधर्म्यभय- कल्पनापेक्षय क्लृप्तस्वरूपषु सम्बन्धत्वरूपधमेकल्पनाया एव न्या- य्यवात्[६]। अन्यथाऽभावविशिष्टबुद्धिषक्षीकरणे तत्राऽपि समवा- यसिद्ध्यापातात् । किञ्च तस्य जन्यस्वपक्षे लाघवानवकाशात् । भाव- कार्यस्य समवायिजन्यत्वनियमेनाऽनवस्थानाञ्च[७] । तदनियमे



  १ तदायत्वम्-तन्निरूपितसम्बन्धवत्वम् । प्रकृते च तत्पदेन जति-
  जातिमन्तौ ग्राह्यौ । तथा च जातिजातिमन्निरूपितसम्बन्धत्वत्त्वा
  भाववति समवाये तदीयत्वप्रकारकज्ञानस्य सर्वादित्यर्थः।असत्ख्या
  तिः-तदभाववात तत्प्रकरकज्ञानम् ।

  २ ‘जात्यादेरपि-'इत्यादिहेतुमेव स्पष्टयति-असत्येवेत्यादिना ।

  ३ समवाये इति शेषः ।

  ४ जातिमता।

  ५ यद्धर्में व्यापकतावच्छेदकत्वज्ञानम्, तद्धर्मावच्छिन्नविधेय
  यताकनुमितिः’ इति नियमेऽपि सामान्यतोदृष्टानुमाने पक्षता सहकृते
  नेतरविशेषबाधनिश्चयेन, लाघवज्ञानेन वा विशेषधर्मावच्छिन्नप्रका
  रताकानुमितेरप्यभ्युपगमादित्यर्थः ।

  ६ क्लृप्तपदार्थातिरिक्ततय समवायाङ्गीकारे समवयत्वरूपध-
  मतदाश्रयीभूतसमवायरूपधर्मिकल्पनापेक्षया तव समवायत्वादिरूप-
  धर्मेण समवायादिरूपधार्मिणः संसर्गस्य कलृप्तपदाथस्वरूपतया कल्प
  नायमिव क्लृतेष्वेव संसर्गत्वरूपधर्मकल्पनायां लाघवादित्यर्थः ।

  ७ समवायः स्वसमवायिनि समवायेनैवोत्पत्स्यते,सोऽपि तथेत्यनवस्थेति भावः॥