पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।



च घटादावपि तदन।पातात् नित्यत्वपक्षे सम्बन्धितन्त्रतया तदभावे सम्बन्धत्वभङ्गात्[] । प्रतियोग्यनुयोगिनोऽनित्यत्वे तान्नित्यत्वस्या- ऽनुभवबाधितत्वाञ्च । अन्यथा सं योगादिसम्बन्धमात्रस्य नित्यत्वाप- तेः । किञ्च समवायस्य सामन्यानां च देशावच्छनत्वं स्वीक्रियते, न च । नाऽऽद्यः । तेषामद्रव्यत्वेन गमनासम्भवेऽवच्छेदकदेशा- तिरिक्तदेशे उत्पन्नव्यक्तिष्ववस्थानभावप्रसङ्गात् । नाऽन्यः। सर्वत्रा- ऽवस्थाने सर्वव्यक्तिसम्बन्दापत्त्या ‘अभावादेर्ने समवायः, सामान्यं द्विविधम्-परमपरं च, सत्त्ववत्त्वं द्रव्यदित्रयाणाम् , समान्यादीनां सामान्यराहित्यम्’ इत्यादिविभागानुपपत्तेः । सर्वस्य सर्वात्मताप्रती- त्यापत्तेश्च । न च व्यञ्जकाभवान्न तथेति वाच्यम् । []आद्यदोषस्य



  १ समवायस्य नित्यस्वपक्षे तत्सम्बन्धिनोऽभावकाले सम्बन्धत्वं
-   न स्यात्, सम्बन्धमात्रस्यैकप्रतियोगिकत्वपरानुयोगीकत्वनियमादिति भावः ।

  २ अयं भावः-‘घटत्वादिरूपा जतिर्घंटादवेव समवायेन तिष्ट-
  ऽति । समवयस्तु स्वस्वरूपेण स्वस्यऽनुयगिनि प्रतिर्योगिनि च,
  नाऽन्यत्र । अन्यथा सर्वे सर्वे स्यात्" इतेि ते मतम् । न च तावन्यत्र
  तदन्यसम्बन्धेन स्थिताविति वाच्यम् । विकल्पासहत्वात् । तथा हि
  स सम्बन्धः-सप्तवायः संयोगः, कालिकः,स्वरूपं वा । नद्यौ । त्वया-   स्वीकृतवत् । न तृतीयः । न च कालिकसम्बन्धेन स्वाश्रयतोऽन्यत्र
  सत्त्वे जातिसमवाययोर्देशावच्छिन्नत्वेन सह कश्चन विरोध इति ।
  वक्तुं युक्तम् । अन्यथा घटेऽपे देशावच्छिन्नत्वं न स्यात् । तथा च
  ऽवच्छेदकदेशातिरिक्तदेशे तयोरद्रव्यत्वेन द्रव्येतरावृतितया पूर्वोक्त
  एवोत्पन्नेष्ववस्थानाभावरूपदोषप्रसङ्ग इति । नान्त्यः । तत्रस्वरूपस्य
  दुर्वचत्वात् । तथा हि-तत्स्वरूपमधिकरणस्य स्वस्य वा नाऽऽद्यस्य !
  त्वयाऽनभ्युपगमात् । नान्यस्य वा । युक्त्या समवयेन वृत्तित्वप्रसङ्गात् ।
  युक्तिश्च-घटादीनामन्तरे(पटादौ) घटत्वादिकं समवायसम्बन्धावच्छि
-   न्न-वृत्तित्वशालि, समवायेनाऽनुस्यूतत्वे (घटादिषु) सति तदन्तरे वि-
  द्यमानत्वात् । यथा--अनक-पुष्पेषु संयोगेनऽनुस्यूतं सत् तदन्तरे
  विद्यमानं सूत्रम् । यत् अनेकेषु येन सम्बन्धेनाऽनुस्यूतं सत् तदन्तरे वि-
  द्यमानम्, तत् तेन सम्बन्धेन तदन्तरे विद्यमानम् , इत्यत्र सामान्यमुखी-