पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१ १ ७
सङ्क्षेपतः पदाथनिरूषणम् ।



दुरुद्धरत्वात् । किञ्च सिद्धे प्रमाणतः सर्वत्र सम्बन्धे स्वभावभेदावल- म्बनम्, नतु स्वभाववादपादप्रसारिकयैव वस्तुतिद्धिः । अन्यथा ‘पवनादावपि रूपादिकमस्तु स्वभावभेदादेवप्रतीतिः इत्यनर्गलगर्ज- नस्य कः प्रतीकारः स्यात् ? एतत्सर्वं मनसि निधायोक्तं वाह्यैः--


 नऽऽयाति न च तत्रासीदस्ति पश्चान्न चांशवत् ।
 जहाति पूर्वं नाऽऽधारमहो व्यसनसन्ततिः !

इति ।

 न च सामान्यानङ्गीकारे[१] घटोऽयमित्याद्यनुगतव्यवहारानुप- पत्तिरिति वाच्यम् । व्यक्तिविशेषतादात्म्याषन्नप्रधानेनैव तदुपपत्तेः। घटत्वादिकमपि परमते व्यक्तिविशेषसमवेतमेव नियामकम्, न तु स्वरूपेण । पटादावपि सत्त्वात्[२]। अत एव ‘नायाति’ इत्यादिरपि न दोषः । [३]तस्याऽधिष्ठानत्वात् । न च खण्डमुण्डादिविलक्षण-

 व्याप्तिः । न चाऽप्रयोजकम् । सर्वत्र समवायेनैव वृत्तित्वकल्पने ला- घवात् । न च तथा लतेि पटाद्यवच्छेदेनाऽपि घटत्वादेः प्रत्यक्षे स्यात् । न होकत्र येन सम्बन्धेन यस्य प्रत्यक्षम्, तेन सम्बन्धेनाऽन्यत्राऽपि तस्य सत्वे प्रत्यक्षम् । अन्यथा समवायस्य रूपिद्रव्यावच्छेदेन प्रत्यक्षे तद्भिन्नेऽपि प्रत्यक्ष स्यात् । विषयतया घटत्वादेः प्रत्यक्षं प्रति स्वस मवेतत्वादिना पटादेः प्रतिबन्धकत्वकल्पनाञ्च । कल्पनाया अनुभ- वानुसारित्वात् । अत एव ‘सर्वं सर्वात्मकं स्यात्’ इति परास्तम् । न चेष्टमेव । सिद्धगन्तव्याघातात् । घटादेरन्यत्र न स्त एव ताविति चेत्, तयोर्देशावच्छिन्नत्वस्याऽऽवश्यकतया चोत्पत्स्यमानघटादिषु जाति- समवयों कथं सम्पत्स्येते । न च तवाकाशवद्विभू , अपि तु विभुत्व- विरुद्धवृत्तिमत्त्वधर्मवन्तौ । एतेन ‘परस्परं विभुद्वयवत् तत्र तत्राऽसम्ब- द्धावेव' इतेि परास्तम् । तस्मात्सूक्तम् ‘आद्यदाषस्य दुरुद्धरत्वत्’ इति ।



  १ परस्परं व्यक्तिभेदेऽपि “घटोऽयम्’ ‘घटोऽयम्’ इति समानकार-
  कव्यवहार इति भावः

  २ यथा सामान्यं स्वसमवायितोऽन्यत्राऽपि स्वस्वरूपेण विद्यते,
  तथाऽपि घटtदेव्यक्तिसमवेतं सदेव ‘घटः’ इत्यादिव्यवहारनिमित्तम्,
  तथा सर्वत्र प्रधानस्य सत्त्वेऽपि घटादिव्यक्तितादत्म्यापन्नमेव प्रधानं
  घटादिव्यवहारनिमित्तमित्यर्थः।

  ३ प्रधानस्य ।