पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
प्रत्यक्षनिरूपणम्



पपादयिष्यत इत्युक्तम् (पृ० १२० पं० ४।५)। अथ प्रमेय- व्युत्पादनाय प्रवृत्तं शखं कस्मात् प्रमाणं सामान्य- तो विशेषतश्च लक्षयति ? इत्यत आह—"प्रमेयसिद्धिः प्रमाणाद्धि” इति । सिद्भिः-प्रतीतिः । सेप्रमार्याऽर्थक- मनुरोधेन पाठक्रममनादृत्यैव व्य।ख्याता ॥ ४ ॥

 सम्प्रति प्रमणविशेषलक्षणावसरे प्रत्यक्षस्य सर्व- प्रमणेषु ज्येष्ठत्वात्, तद्धीनवाञ्चाऽनुमनदीनाम् ,


पयोगितया प्रमाणव्युत्पादनस्य वैयथ्येमाशङ्क्य परिहरति । अथे- त्यादिना । पाठक्रमत्यागे बीजमाह । सेयमिति ॥ ४ ॥

 प्रत्यक्षानन्तरमनुमाननिरूपणे, अनुमानात्प्राक् प्रत्यक्षनिरूपण च सङ्गतिं दर्शयति[१]ज्येष्ठत्वादिति । ज्येष्ठ त्वं-तदुपजी= व्यत्वम् । तथा चाऽनुमाननिरूपितं प्रत्यक्षे उपजीव्यत्वम्, अनुमाने प्रत्यक्षनिरूपितमुपजीवकत्वमित्यर्थः[२] । सङ्गस्यन्तरं च दर्शयति ।



  १ ‘यत् यदनन्तरं निरूपणीयं भवति, तत् तन्निरूपितसङ्गति
  मत् भवति' इति व्याप्तिः । ‘नऽसङ्गतं प्रयुञ्जत’ इत्याभियुक्तोक्तेः, इति
  सङ्गतस्यैव निरूपणीयत्वादित्यर्थः । सङ्गतिश्च-अनन्तराभिधानप्रयोज-
  कजिज्ञासाजनकज्ञानविषयरूप । तथा च प्रकृते प्रत्यक्षानन्तरमनु-
  मानस्याऽभिधानं, तत्प्रयोजिका जिज्ञासा-'प्रत्यक्षकार्यं किम्’ इत्याका-
  रिका, तज्जनकज्ञानं-‘प्रत्यक्षं ज्ञातं, तस्य कार्यमपि स्यात्’ इत्याद्या-
  कारकं प्रत्यक्षकार्यत्वज्ञानम्, न त्वनुमानं प्रत्यक्षकार्यमिति ज्ञानम् , अनु-
  माननिरूपणात् प्राक् तज्ज्ञानासम्भवात् । तद्विषयः प्रत्यक्षकार्यत्व
  रूपः, इति सैव सङ्गतिः । विशेषतश्च-अनुमानरामरुद्रीयादौ द्रष्टव्यम् ।

  २ निरुक्तलक्षणा सङ्गतिः षोढा । तथा चोक्तम्-


 सप्रसङ्ग उपद्घतो हेतुताऽवसरस्तथा ।
 निर्वाहकैक्य क्यकायेिक्ये षोढा सङ्गतिरिष्यते ।

इति ।

 तत्र प्रसङ्गः उपेक्षानर्हत्वं, उपोद्घातदिभिन्नत्वे सति स्मरण- प्रयोजकू सम्बन्धो वा । उपोद्घातस्तु (११८ पृ ० २३ प०) उक्तः । तत्र जिज्ञासा ‘प्रकृतबोधानुकूलचिन्ताविषयः कः? 'इत्यकारिका, तज्जनकज्ञानं च ‘प्रकृतबोधानुकूलचिन्ताविषयः स्यात्’ इत्याकारकं तादृशचिन्ताविषयत्वज्ञानं बोध्यम् । हेतुता-करणत्वम् । कारणस्वस्य कार्यत्वनिरूपितत्वेन हेतुतपदेन कार्यत्वमपि बोध्यम् ।