पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।



प्रतिवादिनामविप्रतिपत्तेश्च तदेव तावल्लक्षयति--


 प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम् ।
 तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ ५ ॥

 ‘प्रतिविषयाध्यवसायो दृष्टम्'इति । अत्र "दृष्टम्" इति समाख्या लक्ष्पदम् । परिशिष्टं तु लक्षणम् । समानासमानजातीयव्यवच्छेदो लक्षणार्थः । अवय-




प्रतिवादिनमति । अविप्रतिपयुक्त्या वलवद्द्वेषविषयत्वाजनकप्र्- तिपत्तिकतारूप-सुप्रतिपाद्यतासूचनेन प्रत्यक्षे एव प्रथमतः शिष्यजि- ज्ञासा, नऽन्यत्रेति सूचितम् । तथा च प्रतिबन्धकीभूतशिष्यजिज्ञासा- निवृत्ताववइयवक्तव्यत्वरूपावसरसङ्गतेिरनुमाने, अवश्यवक्तव्यत्व- प्रयोजकाभावप्रतियोगिजिजज्ञासविषयत्वं प्रत्यक्षे[१], इति सूचितम् ।

लक्षणार्थ इति । लक्षणस्याऽर्थः-प्रयोजनमित्यर्थः । एतेन 'तदृशव्यवच्छेदस्याSसधारणधर्मरूप-लक्षणप्रयोज्यवत् कथं तादृशव्यवच्छेदस्य लक्षणार्थत्वोक्तिः[२] इति परास्तम् । अवय-

अवसरः-अवश्यवक्तव्यत्वम् । निर्वाहकैक्यम्-एकप्रयोजकप्रयोज्यत्वम् । कायैक्यम्-एककार्यकारित्वम् । एतानि लक्षणानि तत्र तत्र सङ्गम- यिष्यन्ते । प्रकृते तु षड्विध सङ्गतिषु मध्ये हेतुतारूप-सङ्गतिरित्यर्थः । उप- जीव्यत्वम्-कारणत्वम् । उपजीवकत्वम्-कार्यत्वम् । अत्र अनुमानात्प्राक् प्रत्यक्षनिरूपणे 'प्रत्यक्षस्य प्रमाणेषु ज्येष्ठत्वात्’ इति हेतुः, प्रत्यक्षानन्तरम- नुमाननिरूपणे ‘तदधीनत्वाच्चाऽनुमानादीनाम्' इति च हेतुरिति विभागः।



  १ कार्यमात्रं प्रति प्रतिबन्धकाभावस्य कारणत्वेन, (अनुमान नि
  ष्ठस्य) अवश्यवक्तव्यत्वस्य प्रयोजको यः अवश्यवक्तव्यत्वप्रतिबन्धकीभूत
  प्रत्यक्ष जिज्ञासाऽभावः, तत्प्रतियोगिनी (प्रत्यक्ष जिज्ञासा, तद्विषयत्वं
  प्रत्यक्ष इत्यर्थः । अत्राऽवसरसङ्गतिपक्षे निरुक्तसङ्गतिलक्षणघटकजिज्ञासा
  'अवश्यवक्तव्यं किम्’ इत्याकारिका, तज्जनकज्ञानं च—‘प्रत्यक्षानन्तरम-
  वश्यं वक्तव्यं किञ्चित्’ इत्यवश्यवक्तव्यत्वप्रकारकम् । लक्षणलमन्वय
  प्रकारस्तु पूवोंक्त एव सर्वत्र बोध्यः ।

  २ प्रत्यक्षं स्वेतरेभ्यो भिन्नम्, प्रतिविषयाध्यवसायत्वात्, यन्नैवं,