योगिनामूर्द्ध्वस्रोतसां च विषयाः । विषयं विषयं प्रति वत्तते इति प्रतिविषयम् –इन्द्रियम् । वृत्तिश्च-सन्नि- कर्षः । अर्थसन्निकृष्टमिन्द्रियमित्यर्थः । तस्मिन्नध्यव- सायः-तदाश्रित इत्यर्थः” । अध्यवसायश्च-बुद्धिव्या-
विषयश्चेति । उर्द्ध्व स्रोतसाम्-ऊर्द्ध्वं स्रोतः-प्रवाहो-गमनं येषा-
माजन्मसिद्धानां-देवादीनांते ऊर्द्धस्रोत सः,तेषामित्यर्थः। इन्द्रिया-
णां व्यापारमाह । वृत्तिश्चेति । विषयाकारवृत्तिरूपपरिणामविशेषः
न तु संयोग इत्यर्थः[१]। तदश्रित इति । न च तादृशेन्द्रियेणा-
[२]ऽध्यवसाय इति कुतो नोक्तम् । एतन्मते नानाच्छिद्रघाटान्तर्वर्ति-
प्रदीपप्रकाशवत् बुद्धिवृत्तिरूपाध्यवसायस्येन्द्रियाजन्यत्वात्[३] ।
* इन्द्रियनिष्ठ इत्याशयः।
१ अयमभिसन्धिः--इन्द्रियैः सह विषयस्य संयोगो भवति
,
परं तन्मात्रस्य कारणत्वे परमाणुभिस्तस्य संयोगसत्त्वेन तेषा
मपि प्रत्यक्षे स्यात् । अतश्चित्तवदिन्द्रियाणामपि विषयाकारेण प
-•
रिणामः स्वीकार्यः । तेन परण्वकारेन्द्रियपरिणमाभावेन नाऽतिप्रस
ङ्गः । न च कार्यमात्रं प्रति स्वस्वकारणकूटेनैव कथायोत्पत्त्यभ्युपगमे
न प्रत्यक्षरूपकार्यस्यऽपि स्वकारणकूटेनैवोत्पत्त्या महत्त्वस्यापे त-
त्कूटान्तर्गततया परमाणुषु तदभावेन न तेषां प्रत्यक्षमितीन्द्रियपरि-
णामः किमर्थं स्वीकार्य इति वाच्यम् । प्रत्यक्षत्वेन तत्पारिणामत्वेन
कार्यकारणभावे लाघवात् । महत्त्वत्वेन प्रत्यक्षकरणत्वपक्षे उद्भूतरू
पत्वदिनापि कारणत्वकल्पनाया आवश्यकतया गैौरवात् । मम मते
तु महत्त्वादेरिन्द्रियपरिणाममात्रोपयोगितया प्रत्यक्षेऽन्यथासिद्धत्वात्
तथा चोक्तं विज्ञानभिक्षुभिर्योगवर्तिके (यो० सू ० ७ पा ० १)“इन्द्रियाण्येव
नाडी चित्तसञ्चरणमार्गः तैः संयुज्य, तद्गोलकद्धरा बाह्यवस्तुषूपरक्स्य
चित्तस्येन्द्रियहित्येनैवाऽर्थीकारः परिणामो भवति, न केवलस्य चित्त
स्य, शङ्खपत्त्याद्याकारतायां नयनादिगतपित्ताद्यन्वयव्यतिरेकाभ्याम्
,
अतो रूपादिवृत्तिषु चक्षुरादीनामपि कारणत्वं शास्त्रेषुच्यते ’इति ।
२ विषयकारपरिणतेनेत्यर्थः ।
३ तथा च यथा घटादिप्रदीपप्रकाशयोर्न जन्यजनकभावः, तथा
विषयाकारपरिणतेन्द्रियबुद्धिवृत्योरपीति भावः ।