पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
सटिकसाङ्ख्यात्त्वकौमुद्याम् ।



इति, वृत्तिरिति च, ज्ञानमिति चाऽऽख्यायते । इदं त- त्प्रमाणम् । अनेन यश्श्चेतनाशक्तेरनुग्रहः तत्-फलं, पमा,


इदम्-वृत्तिरूपनम् । तत् प्रमाणम्-प्रत्यक्षप्रमाणम् । बुद्धिवृत्ते- र्व्यापारभावेन[१] कथं करणवमिति चेन्न । फलायोगव्यवच्छि- स्यैतन्मते करणत्वात् । [२]ननु फलायोगेन-फलाभावेन, व्यव- च्छिन्नम्-शून्यम्,=स्वाव्यवहितोतरक्षणावच्छेदेन फलोपहितमिति यावत् । एवं सति व्यापारवदसाधारणकारणत्वापेक्षय गौरवमिति चेन[३] । नष्टस्याऽपि स्वजन्यव्यापारद्वारा करणस्य कारण त्वनिर्वाहाय कारणतायां फलव्यापारान्यतराव्यवहितपूर्ववृत्तित्व- निवेशे तव मतेऽतिगौरवात् । [४]कारणस्त्रस्य सम्बन्धविशेषघटि-



  १ व्यापारबदलधारणकारणस्य च करणपदर्थतयेत्यर्थः ।

  २ व्यापारवदसाधारणकारणत्वरूप-करणलक्षणपेक्षय। स्वा
  व्यवहेतोत्तरक्षणावच्छेदेन फलोपहितत्वरूप-करणलक्षणे शब्दातो
  गरवमिति शङ्कते--नन्विति ।

  ३ यागादिस्थले यागादेः क्रियादिरूपतया क्षणिकत्वेन स्वजन्य-
  स्वर्गादिरूप-फलस्य कालान्तरभावित्वन कारणलक्षणघटक-फलाव्यव-
  हिततरपूर्ववृत्तित्वस्य यागादावसम्भवेन यागादवव्याप्तिभिया फला-
  व्यवहितोत्तरपूर्ववृत्तित्वस्य फलव्यापारान्यतरपूर्वावृत्तित्वतात्पर्य्यकतया-
  वक्तव्यत्वेन तव मते करणलक्षणं तजन्यत्वे सति तज्जन्यजनकत्वरूप-
  व्यापारपदार्थस्य असाधारणत्वपदार्थस्य कारणत्त्वपदर्थस्य च निवेशेन,
  मम तु मते फलाव्यवहितपूर्ववृत्तित्वार्थक-स्च (करणस्वेनाभिमता)
  व्यवहितोतरक्षणावच्छिन्नफलोपहितत्वमात्रस्य करणलक्षणतयाऽति-
  लाघवम् , अतिगौरवं च तवेति समाधत्ते-नेति ।

  ४ ननु येन केनापि सम्बन्धेन घटादिरूप-फळात्र्यवहितपूर्ववृ
  त्तित्वस्य रासभादावपि सत्त्वेनऽतित्याप्तिः कारणलक्षणस्येति सा
  वृत्तिता कारणतावच्छेदकसम्बन्धेन बोध्या । तेन कलिकादिन रास
  भादेर्घटादिरूप-फलधिकरणे सर्वेऽपि नातिव्याप्तिः । कालिकस्य
  घटदिरूप-फलाधिकरणवृत्तितानवच्छेदकत्वात् । येन सम्बन्धेन
  कारणं कार्याधिकरणेऽभिमतम, तस्यैव तादृशवृत्तितावच्छेदकत्वत् ।