प्रमाणत्वापत्तेः । एतेन[१] ‘आमनो ज्ञानकरणत्वे इष्टापत्तिः'इति प- रास्तम् । न चऽनुभवय्याप्यधर्मावचिछन्न-प्रपावृत्ति-कार्येतानिरू- पितकारणत्वं[२],[३]प्रमाविभाजकधर्मावच्छिन्नकार्यतानिरूपितका- रणत्वं वा प्रमाणवघटकम्, अतो नाऽऽमनः प्रमाणत्वमिति वाच्यम्। उक्तगौरवानिवृत्तेः। [४]घटादेः प्रमाणत्वापत्तेश्च । तस्येन्द्रियसंयो- गुरूप-व्यापारवत्त्वात् । [५]लौकिकविषयतासम्बन्धेन प्रस्यक्षत्वाव-
१ तव मते प्रमाणचतुष्टयत्वेन व्यवहारानुपपत्या ।
२ नन्वत्रानुभवत्वावच्छिन्नकार्यत्वनिवेशेनैव कार्ये लिखे किमिति
तद्व्याप्यधर्मावच्छिन्नकार्यत्वनिवेशनमिति चेन्न । अनुभवत्वावच्छि
न्नकार्यतायां मानाभावात् । न च तुल्यन्यायेन घटत्वाद्यवच्छिन्नकार्य-
तायामपि मानाभाव इति शङ्क्यम् । यत्र क्व चन घटानुत्पत्तै दण्डस्य
घटकारणत्वेन दण्डाभाव एव प्रयोजक इति वक्तव्यम् । कावनुत्पत्तिं
प्रति कारणभावस्य प्रयोजकत्वाभ्युपगमात् । तथा च दण्डत्वेन घटत्वेन
सामान्यतः कार्यकारणभावनभ्युपगमे तद्धटं प्रति तद्दण्डस्य कारणतेति
विशेषत एव कार्यकारणभावाभ्युपगमे ‘एतद्घटाभव एतद्दण्डाभा-
वेन' इति शुङ्गग्राहिकतया ज्ञानं भवितुमशक्यम् । अतो दण्डत्वेन घट-
त्वेन कार्यकारणभावः स्वीकार्यः । तेनऽत्र घटत्वेन घटानुत्पति
र्दण्डत्वेन दण्डाभावेनेति सामान्यतो वक्तुं शक्यम् । न च तथा
प्रकृते । अनुभवस्य चतुर्विधरूपण (प्रत्यक्षानुमानोपमानागमरूपेण) ज्ञातु-
शक्यत्वात् । घeदनामनन्तत्वादिति । भ्रमकरणेऽतिव्याप्तिनिरासाय
-
प्रमावृत्तीति ।
३ ननु तथापि "नीलदण्डः पुरुषः" इत्यादिविशिष्टवैशिष्टपावग
हिबुद्धिं प्रति विशेषणतावच्छेदकीभूत-नीलादिज्ञानस्य स्वजन्यविशे-
षणीभूत-नीलदण्डादि ज्ञानद्वारा कारणत्वेन व्यापारवदनुभवत्वव्याप्य-
धर्मावच्छिन्नप्रमावृत्तिकर्यतानिरूपितकारणत्वरूप-प्रमाकरणलक्षणस्य
तत्रापि सत्त्वेनाऽतिव्याप्तिरित्यत आह-प्रमाविभाजकेत्यादि ।
४ ननु. व्यापारस्य तु करणलक्षणे संसर्गविधया निवेश इति
कुतो निरुक्तातिगैरवमित्यत आह-घटादेरिति ।
५ घटादौ व्यापारवत्त्वं प्रदर्यासाधारणकारणत्वं तत्रैव प्रदर्श-