बोधः। बुद्धितत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यव- सायोऽप्यचेतनो घटादिवत् । एवं हि बुद्धितत्वस्य सुखद- योऽपि परिणामभेदा अचेतनाः पुरुषस्तु-सुखाद्यननुषङ्गी चेतनः। सोऽयं बु द्धितत्त्ववर्तिना ज्ञाननुस्ख़ादिना तत्प्रति- बिम्बितस्तच्छयापत्या ज्ञानसुखादिमानिव भवतीति
म्बद्वारा ‘तज्ज्ञानवान्नहम्’इत्याद्यभिमानः । ‘ज्ञानसुखादिमानिव भवतीति चेतनोऽनुगृह्यते’ इत्यग्रिमग्रन्थेन. तथैव व्युत्पादनात् । अभिमानस्य भ्रमरूपत्वत्तथैव दोष[१]इति चेन्न । प्रतिबिम्बरूपेण विषयोपरक्तबुद्धिवृत्तेस्तत्र[२] सत्त्वात् । चिच्छक्तेर्ज्ञानद्यभिमानो- पपादनार्थं[३] ज्ञानादेरन्यनिष्ठत्वमाह । सोयं बुद्धितत्ववर्त्ति नेति । ‘ज्ञानसुखादिना इत्यस्य ‘ज्ञानसुखादिनिव भव
इति वत् ‘अइ शनबान्' इति भ्रम इत्यर्थः । शनं–वृत्तिरिति चोक्तं मूले (पृ० १२८ पं० २) ।
१ भवदभिमतप्रमाया अभिमानत्मकतया भ्रमरूपत्वात्तक
रणे प्रमाणत्वाभावः । प्रमाणशब्दस्य प्रमाकरणत्वर्थकत्वादित्यर्थः ।
२ चेतने । ननु प्रतिबिम्बरूपेण चेतने बुद्धिवृत्तेः सर्वेपि प्रति-
बिम्बस्य तुच्छतया तां प्रमात्वेन न वक्तुमर्हसीतिचेत्सत्यम् । परं च
सिकन्ते तस्या भ्रमरूपत्वेऽपि शास्त्रस्य लोकमात्रव्युत्पादकतया लोक
तस्तस्याः प्रमात्वात् । ननु तर्हि लोके भ्रमत्वं कस्येति चेच्छृणु,-शुके
श्चक्षुषा सन्निकर्षे तन्न तद्गतचाकचिक्यादि सादृश्यदर्शनेन जायमानरजत-
स्मरणेन बुद्धिरेव रजताकारेण परिणमते, तदा तत्परिणामशुक्त्योरविवे-
को यः , स एव वृत्तिविशेषो भ्रमः, न तु भेदेन ज्ञानाभावमात्रम् । अत्रा
ऽभावस्याऽधिकरणावस्थाविशेषरूपवत् । प्रवृत्तिनिवृत्योज्ञानपूर्वक-
त्वेनाऽनुभवसिद्धत्वञ्च । भ्रमस्याऽभावमात्रत्वे शुक्तिरजतादिस्थलेऽनु
भवसिद्धप्रवृत्याद्यनुपपत्तेः ।
३ ज्ञानवत्तया भ्रमोपपादनार्थमित्यर्थः।