तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्त्तेव भवत्युदासीनः ॥
इति। (करिका २०)
'चिति’ इति सप्तम्यन्तमिति केचित् । अयं प्रघट्टकार्यः– प्रमा
नम-बुद्धिगतवस्त्ववधारणं, स च यदि पुरुषमात्रनिष्ठा तद वि-
षयेन्द्रियसन्निकर्षे सति शरीरमध्यस्थबुद्धेस्तद्देशमारभ्य तत्तद्वि-
षयाकारतया जायमानेन्द्रियाश्रितवृत्तिरेव प्रमाणम्=इन्द्रियार्थ-
सन्निकर्षजन्याकाराश्रय इन्द्रियाश्रितवृत्तिः प्रत्यक्षप्रमाणमिति ।
निष्कर्षः । प्रददोपप्रकाशवत् वृत्तेस्सन्निकर्षाजन्यत्वादाकारग्र-
हण[१] । [२]चैतन्यप्रकाशस्य नित्यत्वेऽपि तत्तदर्थोपरक्तवृत्ति-
मत्त्वेन चैतन्यप्रकाशः फलमित्युक्तं प्राक् (पृ० ११९ पं० १३) ।
ननु लाघवात्स्मृतिव्यावृत्तं-तद्वतेि तत्प्रकारकानुभवत्वरूपं
प्रमात्वं वाच्यम् । तथा हि[३]—दिनादिभेदेन पुरुषभेदेन च
जायमानस्य घटादिज्ञानस्य[४] नानात्वात्तस्य च दिनान्तरावगत-
१ एतश्शोक्तम् पृ० १२६ पं० ११)।
२ ननु अवधारणस्य प्रकाशरूपत्वेन चिद्भिन्नस्य च प्रकृत्यु
पादनकतया जडत्वेनाऽप्रकाशरूपतय चितिरेव फलमित्यापतितम् ।
तथा च कथं तस्य नित्यत्वेन फलत्वमित्यत आह-चैतन्येति ।
३ असन्दिग्धाविपरीतानधिगतविषयकचित्तवृत्तित्वरूप-स्मृति
व्यावृत्ते प्रमात्वे, तद्वति तत्प्रकारकानुभवत्वरूप-प्रमात्वापेक्षया मह-
द्गौरवमिति गौरवमुखेन स्वभिमतलक्षणे लाघवमेवोपपादयतीत्यर्थः ।
अत्रासन्दिग्धेत्यादिप्रमालक्षणे स्मृतिव्यावृत्तयेऽनधिगतत्वं विषये विशे
षणम्, स्मृतिविषये स्वकारणीभूतानुभवेनाऽधिगतत्ववात् । तद्धतीत्यादि-
लक्षणं त्वनुभवत्वमेव स्मृतिव्यावर्त्तनाय, अनुभवत्वस्य स्मृतावभावात् ।
४ घटाद्यनुभवस्येत्यर्थः ।