पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
प्रत्यक्षनिरूपणम् ।



घटादिविषयकत्वेन[१]ऽव्याप्तिवारणायाऽनधिगतत्वमनुभवत्वेना जन्यर्त्वं वक्तव्यम्[२] । तद्धटकीभूत-जन्यत्वं प्रागभावप्रतियोगित्वं, कालिकसम्बन्धेन घटवदिमत्त्वं[३] वेति विनिगमनाविरहेणोभय-



  १ असन्दिग्धेत्यादिप्रमलक्षणघटकीभूत-अनधिगतविषयकत्वस्य
  चाऽसत्त्वेनेति शेषः ।

  २ दिनान्तरावगतघटादिविषयकानुभवस्य दिनान्तरीयानुभवा-
  जन्यत्वेन स्मृतेस्तु संस्कारद्वाराऽनुभवजन्यस्वेन च नाऽव्याप्तिरति
  व्याप्तिश्चेति भावः । तथा च-असन्दिग्धविपरीतविषयकाऽनुभवाज-
  न्या चित्तवृत्तिः प्रमेति निष्कर्षः । अत्राप्यनुभवाजन्यत्वं संस्कारमा-
  त्रद्वारा बोध्यम् । तेन धूमदिप्रत्यक्षात्मकानुभवेन घह्नयनुमित्याद्यात्म
  कानुभवस्य, संस्कारेण च "सोयं देवदतः " इत्यादिप्रत्यभिज्ञादेः स-
  त्त्वेऽपि न क्षतिः । अनुमित्यादौ संस्कारस्याऽकरणत्वात् । प्रत्य-
  भिज्ञादेस्तु संस्कारमात्रस्याकारणत्वात् । इन्द्रिय सन्निकर्षादेरपि का
  रणतयाऽऽवश्यकत्वात् ।

  ३ इदमत्राऽऽकूतम्-केचन क्लृप्तपदर्थातिरिक्ततया नित्यमेकं
  कालमभ्युपगच्छन्ति, अथ च ‘‘इदानीं (अस्मिन् काले) घटे ने
  तदानीम् (तस्मिन् काले)” इत्यादिप्रतीत्या ‘अस्ति’ ‘नस्ति' इति
  विधिनिषेधयोरेकत्र विरोधेन कञ्चनोपपार्धि स्वीकुर्वन्ति, तथापि स-
  उपाधिर्यदि नित्यः स्यात्तर्हि. नित्यस्य सर्वदा सत्वेन तदुपहितकाले
  च भेदभावेन विधिनिषेधयोरेकत्र प्रसङ्गः स्यात्, अतो हेतोर्जन्यमे-
  वोप।धिः । तथा च जन्यस्य सर्वदाऽसत्वेन तत्त्ज्जन्यस्य च भेदेन जा
  यमानतत्तदुपहितकलभेदेन न तयोः प्रसङ्गः इति च वदन्ति । सङ्ख्य
  राद्धान्ते अत्र लघवात् जया एव क्लृप्तपदार्थाः कालः। ननु तर्हि ‘घटो
  द्वयम्' इत्यादिवत् ’घटः कलः’ इति कथं न प्रतीतिः अपि तु ‘घट
  स्य कालः इत्यादिरेव घटकालयोर्भेदविषयकप्रतीतिरितिचेन्न । 'घ-
  टस्य मृत्तिका’ इत्यादिवत् सा भेदप्रतीतिर्भ्रन्ता । शास्त्रज्ञस्य तु न
  भवति, तर्हि साऽपि न भवति तस्येति समः समधिः । तथा च घ
  टादीनामेव कालत्वे सिद्धे ‘इदानीं पटः इत्यादिप्रतीतौ य आधारा-
  धेयभवोऽवभासते, तन्नियामकः कश्चन संसर्गः स्वीकार्यः । स सम्ब
  न्धः संयोगो न भवितुमर्हति । घटेन पटस्य संयोगाभावेऽपि ‘अस्मिन्