पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।



निवेशे[१] महद्गौरवमिति चेन्न । रङ्गरजतयोः "इमे रजतरङ्गे" इत्यांशि- कभ्रमे[२] कालिकादिसम्बन्धेनऽबाधिते तत्तदतिरिक्तसम्बन्धेन च बाधितेऽतिव्याप्तिवारणाय ‘तत्सम्बन्धेन तद्वन्निष्ठविशेष्यतानिरूपि- ततत्सम्बन्धावच्छिन्नतत्प्रकारताशालित्वं तेन सम्बन्धेन तत्प्रमात्व- म्' इत्युक्ते प्रकारतानवगाहि "प्रकृष्टप्रकाशश्चद्रः इत्यादिप्रमायामव्या- तेः । न च तादृशप्रमैवाऽसिद्धेति वाच्यम् । तात्पर्येबलाच्छाब्दात्मक- तादृशप्रमाया अन्यत्र व्युत्पादनात्[३]। लौकायतिकेन चार्वाकवि- शेषेण नानुमानं प्रमाणम्' इति वदता किम् ? अनुमानेऽप्रामाणेऽप्रामा- ण्यमनुमितिप्रयोजकतावच्छेदकीभूतव्याप्तिनिश्चयत्वरूपशून्यत्वालिङ्ग- कानुमानेन तु साधयितुं न शक्यते, तेनाऽनुमानानभ्युपगमात् । ‘नानु- मानं प्रमाणम्’ इति वाक्येन स्वं प्रति, परं प्रति व साध्यते ? आद्ये वा-


काले पटः’ इत्यादिप्रतीतेः एवं क्षणरूप-क्रियया घटस्य कदाचिदपि- संयोगासम्भवे 'अस्मिन् क्षणे पटः’ इत्यादिप्रतीतेश्च सत्त्वात् । तस्मा- त्स संसर्गः स्वरूपविशेषः कलिकाख्यो विलक्षणः सिद्धः । तेन संस- र्गेण जन्य पदार्थे एवं सर्वं विद्यते, न नित्ये इति सूष्ठूक्तं -कालिकस- स्म्बन्धेन घटत्वदिमत्वम् (जन्यत्वम् ) ’ इति । उपाधिरूप एव काल- इति वक्ष्यते मूले (का० ३३) ‘कलश्च वैशिषिकमते’ इत्यादिना ।



  १ एकत्र पक्षपातिनी युक्तिर्विनिगमना, तस्या अभावेन प्राग-
  भावप्रतियोगित्वेसति कालिकसम्बन्धेन घटत्वादिमत्वरूप-जन्यत्व-
  स्याऽसन्दिग्धेत्यादिलक्षणे निवेशे इत्यर्थः।

  २ रजतत्वेन रङ्गावगाहिनि रङ्गस्वेन रजतावगाहिनि च ज्ञानं इत्यर्थः ।

  ३ केनचित् व्यक्तितश्चन्द्रो ज्ञातः परञ्च न ज्ञातः स्वरूपतः
  तेन कञ्चित् प्रति पृष्टम्-कश्चन्द्रः ? इति । तदा तेन ‘अयं स्वरूपतो
  जानातु’ इतीच्छयोक्तम्-प्रकृष्टप्रकाशश्चद्रः (प्रकृष्ट-विलक्षणो यः प्र-
  काशःतदभिज्ञश्चन्द्रः) इति । अत्र निष्प्रकारक एव प्रमात्मकशब्द-
  बोधो भवतीति वेदान्तदर्शनेऽभिधानादिश्यर्थः।