अध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति । संशय- स्याऽनवस्थितग्रहणेनाऽनिश्चितरूपत्वात् निश्चयोऽध्यव- साय इति चाऽनर्थान्तरम् । विषयग्रहणेन ऽसद्विषयं विप- येयमपाकरोति । प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनाद- नुमानस्मृत्यादयः पराकृत भयन्ति | तदेवं समानासमा- नजातीयव्यवच्छेदकत्वात् ‘प्रतिविषयाध्यवसायः इति दृष्टस्य सम्पूर्णं लक्षणम् । तन्त्रान्तरे तैर्थिकानां लक्षणा- न्तराणि न दूषितानि, विस्तरभयदिति ।
नाऽनुमनं प्रमाणमिति वदता लौकायतिकेनाऽप्रति- पन्नः सन्दिग्धो विपर्यस्तो वा पुरुषः कथं प्रतिपद्येत ? न च पुरूषान्तरत अज्ञानसन्देहविपर्ययाः शक्या अर्वाग्दृशा प्रस्पक्षेण प्रतिपत्तुम् । नापि मानान्तरेण, अनभ्युपगमात् । अनवधृताज्ञानसंशयविपर्यासस्तु यं कश्चित्पुरुषं प्रति प्रवर्तमानोऽनवधेयवचनतया प्रेक्षाव- द्भिरुन्मत्तवदुपेक्ष्येत । तदनेनाऽज्ञानादयः परपुरुषवर्त्तिनो- Sभिप्रायभेदाद्वचनभेदाद्वा लिङ्गादनुमातव्याः, इत्यकामे- नाप्यनुमानं प्रमाणमभ्युपेयम् । तत्र प्रत्यक्षकार्यत्वादनु- मानं प्रत्यक्षानन्तरं लक्षणीयम् । तत्राSपि सामन्यलक्षण- पूर्वकत्वाद्विशेषलक्षणस्य, इत्यनुमानसामान्यं तावल्लक्ष- याति । लिङ्गलिङ्गियूर्वकमिति । लिङ्ग-व्याप्यम् । लिङ्गि-
क्यवैयर्थ्यपत्तेः। अन्त्येऽप्यनुमानप्रम्ण्यनभ्युपगन्तरं प्रति वाक्य-
वैयर्थानुद्धारः। अप्रतिपन्नसन्दिग्धविपर्यस्तान्यतमं प्रति साधनं तु न
सम्भवतीत्याह । नानुमानमित्यादिना । अनवधृनाज्ञानादिकेना
ऽन्यं प्रति साधने दोषमाह । अनवधृतेत्यादि । ननु व्यप्यं-वया-
प्याश्रयः। व्याप्तिश्च-स्तवाभाविकः सम्बन्धः । तद्ग्रहश्चोपाधिविरह-
ज्ञानात् । उपधिश्च-प्रकृतसाध्यव्यापकप्रकृतसाधनाव्यापकः। तस्य
१८