तायामुपाध्युद्भावनवैर्थ्यापत्तेश्च । सधनवानिष्ठभेदप्रतियोगिताव- च्छेदकीभूतो यो धर्मः, तद्धर्मावच्छिन्नप्रतियोगिव्यधिकरणाभाव- निवेशेन यत्तत्त्वनिबंशप्तत्त्वाच्च । सवावच्छिन्नसाध्यव्यापकत्वस्वाव- च्छिन्नसाधनाव्यापकत्वोभयसम्बन्धेन यत्किञ्चिद्धर्मविशिष्टत्वप्नुपा- । धित्वमित्यनुगमस्य पूर्वमतेऽपि सम्भवाञ्च ।
अन्ये तु स्वानाधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यः व्यापकत्वमुपाधित्वम् म् । स्वपदं लक्ष्यपरम् । अत्र च यत्तत्वानिवेशेन साधनाव्यापकत्वनिवेशेन च लाघवम् ।'धूमत्वान् वन्हेः’ इत्यादौ म- हीनसयोगोलकान्यतरत्वादिरूप-तादृशधर्मवच्छिन्नसाध्यव्यापक- त्वादार्द्रेन्धनादौ लक्षणसमन्वयः । सद्धेतौ तु व्यञ्जनवत्त्वादौ तादृ- शधर्मावच्छिन्नसाध्यव्यापकत्वाभावान्नऽतिप्रसङ्गः। न चाऽत्र स्व- त्त्वाननुगमेन लक्षणाननुगम इति वाच्यम् । स्वावच्छिन्नसाध्यव्याप- कत्वस्याधिकरणसाधनधिकरणनिष्ठाभावप्रतियोग्यधिकरणतानि- रूपकत्वोभयसम्बन्धेन किञ्चिद्धर्मविशिष्टत्वमुपाधित्वम्.। .स्वपदं धर्मपरम् , इति निष्कर्षादित्याहुः, तन्न । स्वानाधिकरणसाधनाधि- करणकत्वरूप-साधनाव्यापकत्वस्य शब्द भङ्गया-निवेशेन लाघवा सम्भवात् ।
परे तु–यद्धर्मावच्छिन्नप्रतियोगिताकाभावाधिकरणं साधन- तावच्छदकावच्छिनधिकरणं साध्यतावच्१छेदकावच्छिन्न साध्याभा- वाधिकरणं, तद्धर्मावच्छिन्नत्वमुपाधिवम् । सधनतावच्छेदकावच्छि- न्नत्वनिवेशात् ‘द्रव्यं विशिष्टसत्त्वात् इत्यदौ विशिष्टस्याऽनतिरिक्त- त्वेऽपि गुणवत्त्वादौ नातिव्याप्तिः । महानसत्वाद्यभावाधिकरणस्य- जलह्राददेः साध्याभावाधिकरणत्वेन सदैतौ तत्राऽतिव्याप्तिवारणा- य-साधनेति । महानसाद्यभावाधिकरणस्य-पर्वतादेः साधनाधि करणत्वेन सद्धेतौ तत्राऽतिव्यप्तिवारणाय-साध्येत्यादि । उभयाभा- वमादय तत्राऽतिव्याप्तिवारणाय-साध्यतावच्छेदकनिवेशः । नचैव-