यभिचारोन्नयकवमेव दूषकस्वमित्यर्थः
यत्तु ‘अयोपध्यभास’’ इत्यारभ्य नवधोपाध्याभासः प्रति- पादिता गङ्गेश्चराचार्य्यैः तद् अपरे न क्षमन्ते । तथा हि-असाधारण । विपर्यय इति ? ‘असाधारणो विपर्ययो–व्यतिरेको यस्य’ इति बहु व्रीहिः। साध्याभावे साध्ये इति चादौ पूरणीयम् । तथा च यदभावः साध्याभावे साध्येऽमाधारणो भवति, स उपाध्याभास इत्यर्थः । असाधारण्यमिह मपक्षविषक्षव्यावृत्तस्वमात्रम् । साध्याभावरूप-सा ध्यवद्वद् वृत्तित्वमिति यावत् । तथा च यदभावः साध्याभावरूप-सा ध्यवद्वृत्तिः स उपाध्याभास इति फलितम् । तस्य साध्यव्याप- कत्वा भावेनाऽसदुपाधित्वादिति भावः इति माथुरी ।
ननूपधेरसाधारणविपर्ययत्वं कथमभसतप्रयोजकं, तद्व्य तेरेकस्याऽसधारण्येन पक्षे सध्यभवासधकत्वेऽपि 'धूम वह्नि- व्यभिचारी पर्वतेतरत्व व्यभिचारित्वात् द्रव्यत्ववत्’ इति रीत्या तद्व्या- भचारेण हेतौ साध्यव्यभिचरसाधने Sसाधारण्यानवकाशेन- त्तत्साधकतया दूषकत्वसम्भवात् । दूषकत्वे सदुपाधिताया दुर्वारस्वात् । न च सत्प्रतिपक्षस्थलाभिप्रायेण तदभिधानं, अत एव 'इदं च सत्प्रतिपक्षोन्नयकत्वमभिप्रेत्य’ इतेि दीधितिग्रन्थोपि सङ्गच्छते, इति वाच्यम् । उपाधेरनित्यदोषता पत्तेः । न चेष्टापत्तिः। सद्धेतोरपि उक्तरीत्या सोपाधिकस्वापत्तेः । ‘उपाधेर्नेित्यदोषत्वात्' इत्यग्रिममूलविरोधाञ्च । उपाधिव्यतिरेकहेतु- ना साध्याभावसाधनेन अन्वयव्यप्तिग्रहप्रतिबन्धकस्यासाधारण्यस्य दोषाभावाञ्च । न च व्यतिरेकिणि असाधारण्यफलस्यान्वयव्या- प्त्यग्रहस्याऽकिञ्चित्करत्वेपि सत्प्रतिपक्षप्रयोजकतयाऽसाधारण्यदोष | एवेति वाच्यम् । सत्प्रतिपक्षे सत्पर्तिपक्षोत्थापकस्यादोषताया व्यवस्थापितत्वादिति चेत्--
अत्र -दीधितिकृत्-सत्प्रतिपक्षोनयनौपयिकसाध्यव्यापकत्व-