पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
अनुमाननिरूपणम् ।
 

पदोपादानमनुचितम्, ‘असत्साध्य' इति च वक्तव्यम् । ‘अ- सप्तध्यं साध्याभावरूपं यस्य’ इति विग्रहे तादृशार्थळभात् । 'असद्विपर्ययसाध्यकः इति वा । पक्षमात्रवृत्तिरसाधारणः इति मते ऽसाधारणणे एतस्याऽन्तर्भवः ।

 बाधितसाध्यविपर्यः ३ । ‘व्याप्यतासम्बन्धेन बाधितः साध्यविर्षययो यत्र’ इति व्युत्पत्या साध्याभावव्याप्य इत्य- थैः । दृष्टो हि-व्याप्यतासम्वन्धेन वन्ह्भावे धूमाभवो वा- धितः, वन्ह्न्यभावश्च धूमाभावव्याप्य इतेि । अस्योदाहरण- माह-यथ ‘वह्निरनुष्णः, तेजस्त्वात् ’ इत्यत्रऽकृतकत्वम् । ‘न विद्यते कृतं कार्यं यत्र’ इति व्युत्पत्य जन्धर्मानश्रयत्वमित्यर्थः । तेन जन्यत्वरूपाकृतकत्वस्य तेजः परमाणवसत्त्वेपि न क्षतिः।

 अत्र विचारयामः- स्वस्मिन् साध्यभावव्यप्यत्वज्ञानेऽपि स्वा भावेन साध्याभावन्नयकत्वे विरोधाभवः । सध्याभावभावः- उपाधिसमानाधिकरणो न भवति, उपाधिर्वा साध्याभावाभावद्- वृत्तिर्न भवतीति-ज्ञाने उपाध्यभावे निरुक्तसध्याभावव्याप्यत्वज्ञा नाभावेनोपाधेः सत्प्रतिपक्षोन्नायकत्वसम्भवेनाऽऽभासवसम्भवेपि लाघवेन 'सध्याभावव्याप्यः’ इत्येव वक्तव्यम् ।

 पक्षाव्यापकविपर्ययः ४ । पक्षः-साध्यवान्, तदवृत्ति विपर्ययक इत्यर्थः । क्वचित् ‘पक्षाव्यार्त्तकविपर्ययः’ इति पाठः। तस्याप्यय- मेवार्थः । अस्योदाहरणमाह—‘क्षित्यादिकं सकर्तृकं कार्य्य- त्वान्’ इत्यत्राऽणुव्यतिरिक्तत्वम् । अत्राऽणुव्यातिरिक्तत्वव्यतिरे- कस्य क्षित्यादेरेकदेशवृत्त्या भागसिद्धेः । क्षित्यादिकं-पृथि- व्यादिकमित्यर्थः। अणुव्यतिरिक्तस्वं-परमाणुभिन्नत्वम् । अस्यो- पाध्याभसत्वे बीजमाह-अत्रेति । परमाणुव्यतिरिक्तत्वे इत्यर्थः । अणुव्यतिरिक्तत्वव्यतिरेकस्य एकदेशवृत्त्या एकदेश एव वृत्या नित्यपृथिव्यादावेव . वृत्येतियावत् ।.भागासिद्धेः-उपाधिलक्ष-