पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
अनुमाननिरूपणम् ।

लिङ्गलिङ्गिग्रहणेन विषयवाचिना विषधियं प्रत्यपमुप लक्षयति । धूमादिघ्थाप्यो वह्नयदिर्व्पपक इति यः प्रत्य- यस्तपूर्वकम् ।


 थतु "गङ्गदेश्वराचार्याः-नापि स्वाभाविकसम्बधो व्याप्तिः । स्वभवजन्यत्वे तदश्रतत्वादो वा ऽव्याप्त्यतिव्याप्तेइति । एतञ्च व्याख्यातं-मथुरानाथभट्टाचार्यैः स्वभाविकसवें हेि -हंदुस्वरूपज- न्यत्वं, हेतुस्वरूपाश्रितत्वं वा । आद्ये 'द्रव्यं पृथिवीत्वात्' इत्यादौ पृथि- वीत्वादिनिष्ठद्रव्यत्यादिसामानाधिकरण्यस्य नित्यतयाऽव्याप्तिः । द्वितीये ‘द्रव्यं सत्त्वात्' इयादों व्यभिचारिण्यतिव्याप्तिरित्याह-स्व- भावेति । स्वभावजन्यत्वे-नहेतुस्वरूजन्यत्वे, तदाश्रतत्वादौ वा स्वभाविकपदार्थे इति शेषः । अव्याप्त्यतिव्याप्तंरिति । अव्याप्ति सहातिव्याप्तेरित्यर्थः, मध्यमपदलोपीसमासात् । अन्यथा-द्वन्द्व दैविध्येन द्विधचननपुंसकलिङ्गयोरन्यतरापत्तेः । 'तदाश्रितवादौ’ इ- त्यादिपदादनारोपितत्त्वपरिग्रहः । तत्रापि ’द्रव्यं सत्वात्’ इत्या- दावतिव्याप्तिर्बोध्या,मतायां द्रव्यत्वसामानाधिकरण्यस्याऽनारो- पितत्वादिति, ” तन्न । निरुपाधिकसम्बन्धस्यैव स्वाभाविकत्वा- भिधानात् ।

 तदुक्तं-तात्पर्यटीकायां वाचस्पतिमिश्रैः। तथा हि-‘धूमादीनां वह्नयादिसम्बन्धः स्वाभाविकः न तु वह्न्यादीनां धूमादिभिः, ते हि विनाऽपि धूमादिभिरुपलभ्यन्ते । यदात्वार्द्रेन्धनादिसम्बन्ध- मनुभवति, तदा धूमादिभिः सह सम्बद्ध्यन्ते । तस्माद्वह्न्यादी- नामर्द्रेन्धनाद्युपाधिकृतः सम्बन्धो, न स्वाभाविक: , अतो न नियतः । स्वभाविकस्तु धूमादीनां वह्नयादिसम्बन्धः, उपाधे- रनुपलभ्यमानत्वादिति । अधिकं तु तन्निबन्धादावनुसन्धेयम् ।

 लिङ्गस्य करणत्वाभावादाह । लिङ्गलिङ्गिप्रहणेनेति । लिङ्गस्य करणत्वेऽतीतादि लिङ्गस्थळेऽनुमितिर्न स्यात्, अनुमित्य-