पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
सटिकसाङ्ख्यतत्वकौमुद्याम्
 

लिङ्गिग्रहणं चाSSवर्त्तनीयम् । तेन लिङ्गमस्यास्तीति पक्ष- धर्मताज्ञानमपि दर्शितं भवति । तद्व्याप्यव्यापकभावपक्ष- धर्मताज्ञानपूर्वकमनुमानमेितेि-अनुमानसमिन्यं लक्षित- म् । अनुमानविशेषांस्तन्त्रान्तरलक्षितानभिमतान् स्मा- रयति । त्रिविधमनुमानमिति । तत् सामान्यतो लक्षितम- नुमानं विशेषतस्त्रिविधम्-पूर्ववच्छेषवत्सामान्यतो दृ ष्टश्चेति । तत्र प्रथमं तां च द्विविधं -वीतमवतिं च । अन्वय- मुखेन प्रवर्त्तमानं विधायकं वीतम् ।


व्यवहितपूर्वक्षणे लिङ्गाभावादिति भावः । व्याप्तिविशिष्टज्ञान सत्त्वे पि पक्षधर्मताज्ञानाभावेऽनुमित्यदर्शनादह । लिङ्गिग्रहणं चेति । तद्व्याप्यव्यापकभावेति । एतन्मते फलयोगव्यव- च्छिन्नस्यैव करणत्वादिति भावः । स्वमते प्रकरान्तरेण वक्तव्य- त्वादह। तन्त्रान्तरलक्षितानिति । तच्छब्दर्थमाह । सामा- न्यत इति । तत्रान्तरलक्षितान् इति यदुक्तं, तद्दर्शयति । पूर्व- वदित्यादिना । स्वमतेन विभागमाह । तत्रेति । तत्र-सामा न्यविशेषरूपेषु मध्येदं प्रथमं-सामामान्यतोलक्षितं यदनुमानं तत् । पूर्ववदादेः प्राचीनसाड्ख्यीयसञ्ज्ञान्तरमाह । वीतमवीतंचेति ।

 केचित्तु-तत्र-पूर्ववदित्यादिषु मध्ये प्रथमं-पूर्ववत् द्विविध- म्' इत्याहुः, तन्न । तथा सति प्रथमं वीतं द्वितीयमवीतमित्येव कथ- नापत्तेः, द्वयोः सञ्ज्ञायान्तरविधानात्-अपरञ्च वीतं सामान्यतोदृष्ट- मिति चरमस्य वीतान्तरभावकथनासङ्गतेश्च, स्मारयतीति कथनासङ्ग- तेश्च। ‘एवाभिमतान्’ इत्यपपाठः। तथाचानुमानं द्विविधम्-वी - तमधीतं च । अवीतं शेषवत् । वीतं द्विविधम्-दृष्टस्वलक्षणसामान्य- विषयमदृष्टस्वलक्षणसमान्यविषयं च । आद्य-पूर्ववत् । चरमं-समा- न्यतोदृष्टमिति । अयमर्थस्त्वग्रेस्पष्ट एव । अन्वयमुखेन-अन्वयसह- चरग्रहजन्याप्तिग्रहस्वेन । प्रवर्त्तमानम्-अनुमिति जनकम् ।