पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
अनुमाननिरूपणम् ।



क्रियात्वेन करणवस्वमनुमीयते । यद्यपि करणयसाः- मान्यस्य छिदादौ वास्यादि स्वलक्षणमुपलब्धम्, तथा Sपि यज्जातीयं रूपादिज्ञाने करणवत्त्वमनुमीयते तज्जाती- यस्य करणस्य न दृष्टुं स्वलक्षणं प्रत्यक्षेंण । इन्द्रियजातीयं हि तत्करणम्, नचेन्द्रियत्वसामान्यस्य स्वलक्षणमिन्द्रि- यविशेषः प्रयक्षगोचरे ऽर्वाग्दृशाम्, यथा वह्नित्वसामा- न्यस्य स्वलक्षणं वह्निः । सोऽयं पूर्ववतः सामा- न्यतो दृष्टात् सत्यपि वीतत्वेन तुल्यत्वे विशेषः ।




अनुमीयते इतिप्रयोगस्तु-रूपादिज्ञानं सकरणकं क्रि यात्पात् छिदादिवदिति । न चे ज्ञानस्य क्रियात्वाभाव- द्धेत्सिद्धिरिति शङ्क्यम्, स्वमताभिप्रायेण तथाभिधानात् । नन्वत्रा- पि सकरणकत्व सामान्यस्य स्वलक्षणविशेषो वास्यादिकरणकत्व- रूपश्छिदादौ प्रसिद्धस्तत्कथमस्य दृष्टस्वलक्षणसामान्याद्भिन्नत्व- मित्याशङ्कते । यद्यपीति । अत्रेन्द्रियजातीयकरणकत्वस्य सा- ध्यतया तत्करणकत्वसामान्य जातीयविशेषस्याऽस्मदादिप्रत्यक्षागो- चरत्वादित्यभिप्रायेण समधत्ते । तथापीति । करणत्वसामान्यवि- शेषत्वस्य वास्यादावभिधानं तु सकरणकत्वस्य साध्यस्य करणे एव प्रर्यवसानामित्यभिप्रायेणेति बोध्यम् । व्यतिरेकदृष्टान्तमाह । यथेति । पूर्ववतः सामान्यतोदृष्टाद्भेदकं रूपं दर्शयति । सोयमितितत्पदेन-अनुपदोक्तदृष्टस्वलक्षणसामान्यसाध्यकत्वं गृह्यते । तस्य । च विशेष इत्यग्रिमेणान्वयः ।

 सोयं-सपक्षे साध्यदर्शनरूप इति कश्चित्अन्ये तु सोयम्- अदृष्टस्वलक्षणात्मक इत्याहुस्तन्न । सामान्य- तोदृष्टादितिपञ्चम्यनुपपत्तेः । पञ्चम्याः षष्ठ्यर्थेत्वे तु नायं दोषः ।

 परे तु सामान्यतोदृष्टात्- अदृष्टस्वलक्षणसामान्यांविषयात् सोयं सपक्षे दृष्टस्वलक्षणात्मकोऽपरवीतस्य पूर्ववतो विशेष इत्यर्थ-