“आसश्रुतिराप्तवचनं तु” इति । आप्त वचन मिति लक्ष्यनि- र्दंशः परिशिष्टं लक्षणम् । अप्त युक्तेति यावत् । आप्ता चासौ श्रुतिश्चेति अप्तश्रुतिः । श्रुतिः-वाक्यज-
चति’ इति वर्तमानार्थनिष्ठपि प्रयोगे व्युत्पन्नकाष्ठपदव्यतिरिक्तपद- विभक्त्यर्थोऽयुत्पन्नकाष्ठप्रातिपदिकार्थः-‘पचत’ इति प्रसिद्धार्थपद- समभिव्याहारेण 'यत् पाके करणं तत् काष्ठशब्दप्रतिपाद्यम्, इत्य- वगम्य प्रत्यक्षेणन्धनानां करणभावमवगच्छन् काष्ठपदस्येन्धने शक्तिं व्युत्पद्यते । प्रयोगश्चात्र भवन्ति–विवादपदानि निय- मेन न कार्यान्वितस्यार्थसमर्थ्यानि पदत्वात् कार्यपदवत्’ । का- यदिपदेषु सिद्धसाधनवारणय-विवादेति । यदा । योग्यैतरपदा- नुप्रवेशस्तद। कार्यान्वितस्वार्थसामर्थ्यवत्त्वमप्यस्तीति तदभावसाधने ब्धस्तद्व्यावृत्तये-नियमेनेति विशेषणम् । विपर्यये कार्यपदसम- न्वितपदानां कार्यान्वितपरत्वे पयोयत्वप्रसङगो बाधकः ।
एतेन-'इदमनुपपन्नं सिद्धसधनत्वात् कार्यान्वितमात्रे साम- र्थ्यस्याऽनङ्गीकारात्, किन्तु अन्वितकार्ये कार्यान्वियिनि वा तदा- श्रयणात्' इति परास्तम् । अन्वियिनि शब्दसमर्थ्ये सति ‘कार्या न्वयिनि’ इति वक्रोक्तेः केवलकण्ठशोषकरतयोपेक्षणीयत्वाञ्च । न । च ‘अन्वयिनि' इत्येवास्त्विति वाच्यम् , गौरवात् ।
यज्ञ-कार्यपदव्यतिरिक्तानां कर्यान्विते सामर्थ्यं कार्ये- पदस्य तु स्वरूपेऽन्यान्विते वेति प्रयोजकैद्वविध्याङ्गीकारे गौ- रवप्रसङ्गात्-योग्येतरान्विते सामर्थ्यमित्येकमेव प्रयोजकमुपादेय मिति वदतो वेदान्तिनः प्रति सिद्धसाधनम्” इति । तन्न । योग्या न्यान्विते सामंर्थ्यमङ्गीकुर्वतांमप्यन्यपदार्थानामानन्त्येन तदन्विता नामनन्त्यात्–पदसामर्थ्यस्य बहुविषयताया दुष्परिहरत्वात् ।
आप्ता-परम्पराप्राप्ता । अनेनापैरुषेयत्वं सूचितम् । स्वमते फलऽयोगव्यवछिन्नस्य करणत्वादाह । श्रुतिरित्यादि ।
२१