विच्छिन्नमूलवत् प्रमणविरुद्धार्थाभिधानाञ्च कै- श्चिदेव म्लेच्छदिभिः पुरुषापसदैः पशुप्रायैः परिग्रहाद् वोद्धव्यम् ।
रजतादौ तन्निषेधे च शुक्तिकाद्यधिष्ठानस्य शुक्तिकाद्यवधेश्चादर्शनेन
सदधिष्ठानक एव भ्रमः सदवधिक एव निषेध इति नियमेनभाव
इति वाच्यम् । जागरणे स्वाधिष्ठाप्नादेर्दर्शनेन निरधिष्ठानादेरद-
शैनेन च स्वाप्नेपि तथाकल्पनात् । न च ‘स्वप्न-
रजतादे सधिष्ठानत्वकल्पना न सम्भवति, दूरदेशस्थ
ष्ठानतयोपलभ्यमानत्वेन चेतनस्याप्यधिष्ठानत्वासम्भवात्--प्राति-
भासिकदेशस्यापि पूर्वकालीनत्वाभावेनाधिष्ठानत्वासम्भवात्’ इति
वाच्यम् । चैतन्ये देशविशेषविशिष्टवेन स्वाप्नरजतादेः कल्प-
नेन देशविशेषाधिष्ठितत्वेन प्रतीत्युपपत्तेः । न च चैतन्यस्याधिष्ठा-
नत्वाङ्गीकारे भ्रमे शुक्त्यदिवत्सामान्यरूपेण भानापत्तिरिति वाच्य -
म् । सन् घट इत्यादिवत् सद्रजतमित्यादिप्रतीतेः । न चैवं ‘सधीः ।
स्वप्नो भूत्वेमं लोकमनुसञ्चरति’ इति श्रुतिविरोधापत्तिरिति वाव्यम् ।
'दशभिःसह पुत्रैश्च भारं वहीत गर्दभी’ इत्यत्र पुत्राणां भरानन्व-
यवदन्तः करणस्य कार्येऽन्वयेनोक्तश्रुतेस्तद्विशिष्टे तात्पर्याभावात् ।
अत एवाहं सुखीत्यादिवदहं रजतमित्यादि न प्रतीयपत्तिः।
विच्छिन्नमूलवत्-प्रत्यक्षवेदादिमूलशून्यवात् । ननु वे दमूलकत्वमनुमेयमियाशाङ्क्याह । विरुद्धार्थेति। तथा च उक्तप्रत्य- क्षश्रुतिविरोधेऽनुमानासम्भवादित्यर्थः। शिष्टापरिग्रहादप्यनुमानं न सम्भवतीत्याह । कैश्चिदित्यादि । पुरुषापसदैः-सङ्करजातीयैः । अत्र ’वा’ शब्दः कैमुतिकन्यायसूचकः। यदि प्रत्यक्षश्रुतिविरोधाद- नुमानं न सम्भवति किमुत तदऽशिष्टपरिग्रहैरित्यर्थः । संसारभोचकादीना- मत्रत्यादिपदेन (पृ० १६३ पं० ३) जैनानामेकान्तभङ्गप्रयो--