पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
शब्दनिरूपणम् ।



र्वथैवैकान्तभङ्गात् भवतः सप्तभङ्गमयमपेक्ष्य स्याद्वाद हेयोपादे- यविशेषकृदित्यर्थः ।

 कार्यसद्वादिनिरस्तेऽसद्वादी बौद्ध प्रयुक्तं—'इदं सर्वदाऽसत् भावत्वाद्व्यतिरेकेऽभाववत् 'इति प्रयोगे स्यान्नास्तीति द्वितीयभङ्गः ।- 'इदं सर्वं सर्वदाऽसन्न भवति कादाचित्कार्थक्रियाकारित्वात् व्यति- रेके नरशृङ्गवत्’ इति ।

 एवमसद्वादनेिरस्ते सदसद्वादिवैशेषिकाः प्रत्यपतिष्ठन्ते–'घट उत्पत्तेः प्राकू नाशानन्तरञ्च तत्राऽसन् तदानीं तत्र प्रत्यक्षसाम- ग्र्यां सत्यामप्य नुपलभ्यमानत्वात्, यो यदा प्रत्यक्षसामग्र्यां स त्यामपि यत्र नोपलभ्यते स तत्र नास्त्येव यथा पटशून्यभूतले पटः'। 'मध्ये च सन् उपलभ्यमानस्व' इति क्रमेण सत्वेऽसत्वे च साधिते स्यादस्ति नास्ति चेति तृतीयभङ्गप्रवृत्तिः -'विद्यमानोपि घटोऽसन् वस्तुत्वात् । न चाऽप्रयोजकस्वम् । परिच्छिन्नत्वेनाऽसत्त्वापत्त्या सर्वदेशपुरुषादिसम्बन्धाङ्गीकारेण हेयोपादेयतानापत्तेः । तस्माद्य- त्किञ्चित्पुरुषस्वामिदेशादिसम्बन्धत्वेनाऽसत्त्वमप्यवश्यं स्वीकरणी- यम् । एवं निरस्ते वैशेषिकेऽनिर्वाक्यत्वनियमविवक्षया पुनः ‘घटो- ऽनिर्वाच्यः सदसद्भ्यां निरूपयितुमशक्यत्वात् । न च हेत्व- | सिद्धिः । यदि सत्स्यात्तहैिं न बाध्येत, यद्यसत्स्यात्तर्हि नो परो- क्षीभूयादित्यादितर्केंण तन्निश्चयात् । इत्येवं प्रयोगे चतुर्थेभङ्ग प्रवृ- त्तिः। नचैवं 'युगपत्तद्विवक्षायाम् ' (पृ० १६५ पं० २८) इति श्लो कविरोधः । वाचः क्रमेकतय युगपत्तद्विवक्षाया असम्भवेऽनिर्वा- च्यत्वविवक्षायामेव तस्य तात्पर्यात् । ‘अशक्तितः (पृ० १६५ पं० २८) इत्यस्य तादृशतात्पर्यग्राहकत्वेन न वैयर्थ्यम्म् ।

 अनिर्वाच्योऽनैकान्त्यावस्तुत्वात् ’ इत्यादिना निरस्ते पुनः साङ्ख्येनास्तित्वाऽनिर्वाच्यत्वनियमोद्भावने पञ्चमभङ्गप्रवृत्तिः। अ- स्तित्वानिर्वाच्यत्वनियमोद्भावनं तद्भङ्गप्रवृत्तिश्च चतुर्थनियमोद्भावन •