पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।



अभिनवकविराचितस्य वाक्यस्यादृष्टपूर्वस्याननुभूतचर वाक्यार्थबोधकत्वादिति ।




स्यादित्यर्थः । व्याप्तिग्रहं विनापि शब्दानुभवसूचनाय सम्बन्ध समान्यग्रहणम्(पृ० १६९ पं० ४)।

 ‘ननु शब्दस्य प्रमाणान्तत्वभिया क्षणविलम्बेनैव तत्र बो धोऽभ्युपेयः । न च वाक्यार्थे वाक्यस्य शत्यभावेन लिङ्गत्वमेव न सम्भवतीति वाच्यम् । पदश्रवणानन्तरं पदर्थोपस्थितिवतः- पदनि पक्षीकृत्य तद्गतधमेणानुमितिसम्भवात् । तथाहेि ‘दण्डेन गामानय-इति पदानि तात्पर्यविषयस्मारितपदार्थसंसर्गज्ञानपूर्व- काणि आकाङ्क्षादिमत्पदकदम्बत्वात् ‘घटमानय’ इति पदवत्" । न च तात्परविषयीभूतो यः संसर्गस्तज्ज्ञानपूर्वकाणीत्येव सम्यगि- ति वाच्यम् । 'दण्डेन गामानय’ इति वाक्यप्रयोगानन्तरं गोप- दार्थाऽम्पदार्थविषयकं ज्ञानमनुभवसिद्धमनुमानेनापि तादृशं ज्ञानं करणीयम् , अन्यथा तद्विषयकज्ञानार्थं शब्दस्य प्रमाणान्तरतापति- रतस्तदुपादानवश्यकत्वात् । स्मारितेत्यस्य प्रयोजनं तूहनीयम्" इत्याशङ्क्याह । अभिनयेत्यादि । तथा च तादृशसंसर्गस्य पूर्वमननु भवाद्व्याप्तिग्रहो न सम्भवतीत्यर्थः । तत्सम्भवेपि ‘इदं रजतम्' इत्या- दिवाक्यस्थले रजतज्ञानस्य सम्भवेपि इदन्त्वावच्छिन्नविशेष्यकतदा- त्म्यसम्बन्धेन रजतप्रकारकप्रवृत्तिस्वरूपयोग्यत्वसम्भवेन तत्स्वरू- पयोग्यमिदन्त्वावच्छिन्नविशेष्यकतादत्म्यसम्बन्धेन रजतप्रकारकं ज्ञानमवश्यं वाच्यम् । तच्चानुमानान्न सम्भवति,तदर्थं शब्दस्य प्रमाण- न्तरत्वमवश्यमभ्युपेयम् । यदि चार्थप्रकारकत्वेन ज्ञानं न प्रवर्तकम्, किन्तु अर्थविषयकत्वेन; सदि भ्रान्तिज्ञस्यापि प्रवृत्त्यापत्तिः । न च । भ्रान्तिज्ञानस्यापि रजप्रकारकत्वमस्त्येवेति वाच्यम् । तथा सति भ्रान्तितज्ज्ञानयोर्वधिकरणमकारकत्वात्--भ्रमत्वापत्तेरभदा- पत्तेर्वा । वाक्यार्थंस्याऽनुमेयत्वाङ्गीकारे ‘आत्मा वा अरे श्रोतव्यो