पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
उपमानादिप्रमाणान्तरनिरसनम् ।



एवं प्रमाणसामान्यलक्षणषु तद्विशेषलक्षणेषु च सत्सु यानि प्रमाणान्तराण्युपमानादीनि प्रतिवादिभिर- युपेयन्ते तान्युक्तलक्षणेष्वेव प्रमणेष्वन्तर्भवन्ति ।

 तथा हि-उपमानं तावद्यथा गौस्तथा गवय इति वाक्यम् । तज्जनिता धीरागमे एव। यो ऽप्ययं गवयशब्दो गोसदृशस्य वाचक इति प्रत्ययः ऽप्यनुमनमेव ।

मन्तव्यः' इत्यत्र पृथक् मननग्रहणानुपपत्तिः । नाऽनुमितं न साक्षात्कृतं, किन्तु श्रुतमित्यनुभवानुपपत्तिश्च ।

 उक्तार्थमुपसंहरन्सर्वप्रमाणसिद्धत्वादित्युक्तमुपपादयति । एव- मित्यादिना । कस्य कुत्रान्तर्भाव इत्याकाङ्क्षायामादौ ‘प्रसिद्ध- साधर्म्यात्सध्यसाधनमुपमानम्' इति अक्षपादेनोक्तम् (न्या ० अ० १ आ० १ सू० ६)---कीदृशो गवयः ? इत्येवं नागरिकेण पृष्टो वन्यः प्रसिदेन गवा साधर्म्यादप्रसिद्धं गवयं येन वाक्येन साधय- ति-यथा गौस्तथ गवय इनि, ताद्वाक्यमुपमानमिति । तच्च प्रत्यक्षादिभ्यः प्रमाणन्तरम् , तज्जन्यप्रमाविलक्षणप्रमाजनकत्वात् । यदि न तेभ्यो विलक्षणमभविष्यत् तर्हि न तद्विलक्षणं प्रमामकृरि- ष्यत्,यथा तान्येव , नचैतत्तथा, तस्मान्नतथेति । तत्र शब्देऽन्तर्भाव- यति । उपमानं तावदिति । हेत्वसिद्धिमाह । तज्जनितेति । अगम एव -शाब्दबोध एव ।

 वात्स्यायनाचार्य्यदयस्तु -प्रसिद्धसाधर्म्यात्त्- प्रसिद्धसाधर्म्य-. ज्ञानात् साध्यसाधनं-समाख्याप्रतिपत्तिर्यतस्तदुपमानम् । तच्चा ऽऽगमाहितसंस्कारस्मृत्यपेक्षं सारूप्यज्ञानमित्याहुः। तन्न सम्भवति । गोसदृशो गवयपदव।चयः, गवयशब्दां गोसदृशस्य वाचक इत्यदि- स्मरणाभावात् । स्मरणकल्पने च स प्रययोऽनुमितिरेव स्यान्नोप- मितिरित्यभिप्रायेणाह । योपीतिअनुमानमेव-अनुमितिरेव