पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
उपमानादिप्रमाणान्तरनिरसनम् ।



इति तत् शनमनुमानमेव । यतु गवयस्य चक्षुः सन्नि

 एतेन ‘नापि शब्दं,गवयत्वविशिष्टोस्थापकपदाभावात्" इत्यपि परास्तम् । गवयपदस्यैव सामान्यतस्तदुपस्थापकत्वत् । सामा- न्यतः शक्तिग्रहाभावे आप्तवाक्यादपि शाब्दबोधानुपपत्तेः । गो- सदृशो गवयपदवाच्य इयुपामित्पीकर्तुमतेपि यथा गौस्तथा गवय तस्मादपि गोसदृशस्य गवयशब्दः समारू गवयो गवय- शब्दवाच्य इति वाऽवगमसम्भवाञ्च । यद्यप्ययं पिण्डो गवयशब्द- वाच्यो गवयशब्द एतस्य पिण्डस्य समाख्येति व केवलवाक्यात् सदृश्यज्ञानमात्राद्वा ज्ञातुं न शक्यते, तथापि उक्तरीत्या परामर्शे- णानुमितिसम्भवादिति । अत । एवायं पिण्डो गवयशब्दवा- च्यो गोसारूप्यादित्येवमनुउभवः सर्थशास्त्रार्थज्ञानवतामपक्षपातिना-

 एवं हि करभमतिदीर्धवक्रग्रीवं लम्बोष्ठं कठोरतीक्ष्णकण्टका- शिनं कुत्सितावयवसन्निवेशमपसदं पशूनामित्यादावतिदीर्घग्रिवत्वा- दिपश्वन्तरवैधर्म्यज्ञानात्करभपदवाच्यताग्रहोपि व्याख्येयः ।

 अत्र आप्तवाक्याज्जायमान आगम एव । योप्ययं गवयशब्दो गोसदृशस्य वाचफ इति प्रत्ययः- वक्यार्थागवमोत्तरं; मनसः स इत्यर्थः । यद्गवयस्य चक्षुस्सन्निकृष्टस्य गोसादृश्यज्ञानं-वाक्यार्थ स्मरणोत्तरं ज्ञानमित्यर्थ इति यथा श्रुतग्रन्थार्थवादिनः ।

 यथा गौर्गवयस्तथेत्यतिदेशवाक्यं श्रुत्वा वनङ्गतानामयं गो- सदृशो गवय इति । यत् ज्ञानम्; तत्रातिदेशवाक्यांवगतं यद्गृह्यते तत्आवन्नोपमानप्रमेयं, किन्त्वनवगतं गवयस्वरूपे गोसादृश्यमिति जरनैयायिकमतमपाकरोति । यत्तु गवयस्येति

 एवं प्रत्यक्षे गवये उपमानस्य प्रमेयाभावेन नैयायिकमतं दूष- यित्वायं गचयपिण्डो गोसदृश इति ज्ञानानन्तरमनेन सदृशी मदी-