पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
सटिकसाङ्क्ख्यतत्त्वकौमुद्याम् ।



कृष्टस्य गोसाडृश्यज्ञानं तत् प्रत्यक्षमेव । अत एथ स्स्मर्य- माणायां गवि गवयसादृश्यज्ञानं प्रत्यक्षम् । न ह्य्न्य- द्गवि सदृश्थमन्यञ्च गवये । भूयोऽवयवसामान्ययोगो हि जात्यन्तरवर्ती जात्यन्तरे मादृश्यमुच्यते । सामान्य- योगश्चैकः


या गौरिति गोनिष्ठगवयसादृश्यनिश्चय उपमितिः। इयं च न प्रत्यक्षे- ण, गोपिण्डस्यासन्निकर्षात्वत् । नाप्यनुमानेन, गवयनिष्ठगोसा" दृश्यस्यातळिङ्गस्यात् , इत्यर्थषरम्- “उपमानमपि सादृइयम्-अम्- न्निकृष्टेर्थे बुद्धिमुत्पादयति । यथा गवयदर्शनं गोस्मरणस्य" इति भाष्यं (मी० अ० १ पा० १ सृ० ५)दूषयति । अत ए- वेति । यतश्चक्षुस्मंनिकृष्टे गवये गोसदृश्यज्ञानं प्र्त्य- क्षमत इत्यर्थः । ननु गोसदृशो गवय इत्यत्राऽवयववतः सा- दृइयम्, तच्च ग्ऽवयवसनातीयावयवसम्बन्धित्वरूपं गवये वक्त- यम् । गवि चैतदवयवसजातीयावयवसम्बन्ध्त्वम् तञ्च गवय- सादृश्याद्भिनम् । तथा चैतस्य प्रत्यक्षत्वेपि गोसादृश्यस्य प्रत्य- क्षत्वं न सम्भवतीत्याङ्क्याह । नयन्यादिति । तदेव सादृश्यलक्षण कथनेनोपपादयति । भूयोऽवयवेतिभूयांसि यानि अवय वानां सामान्यानि–असाधारणधर्माः तेषां योग:-सम्बन्धः जात्यन्तरवर्ती-- प्रधानावयविरूपवस्वन्तर्वर्त्त् जात्यन्तरे- पूर्वप्रधानाभिन्नपधानावयविनि वस्त्वन्तरे सदृश्यमुच्यते । स म्प्रदायविद्भिरिति शेषः । इदञ्चप्रकृताभिप्रायेण । अन्यथा सिंह सदृशो देवदत्तः, श्येनसदृशो याग इस्यादावव्याप्तिः । तथा च वस्त्वन्तरस्य स्ववयवेषु गुणेषु कर्मसु व समवेतैः सामान्यैर्येन प्रकारेण स्वस्य योगस्तेनैव प्रकारेण स्वभिन्ने तैर्योगः सादृश्यम् । तच्चैकमेवोभयत्रेत्यर्थः। नच यानि. धर्माख्यान्यवादिसामान्या- नि तद्भूयस्त्वं वा सादृश्यमित्येतावद्वक्तव्यं, किं योगग्रहणेनेति-