एवमर्थापत्तिरपि न प्रमाणान्तरम् । तथा हि--जी- वतश्चैत्रस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्प- नमर्थापत्तिरभिप्रता वृद्धानाम्। सr ऽप्यनुमानमेव । यदा खल्वव्यापकः सन्नेकत्र नास्ति तदा ऽयत्रास्ति । यद ऽव्यापक एकत्रास्ति तद ऽन्यत्र नास्तीति सुकरः स्वशरीरे व्यप्तिग्रहः । तथा च सतो ऽभावदर्शनेन
श्यप्रतियोगिवात्, यो यद्गतसादृशप्रतियोगी स तत्सदृशः, यथा
दर्पणस्थमुखावभासो मुखसदृश' इत्यनुमानेनापि सत्सम्भवः ।
इदं न साक्षात्कृतं, नानुमितं, किन्तूपामितमित्यनुभवस्तु नास्त्ये
वेति तु ध्येयम् ।
अर्थापत्तिरपीति । अर्थस्यापत्तिः कल्पना यस्मात् अर्थ स्यापत्तिरर्थापत्तिरित्येवमर्थापत्तिशब्दः उभयत्र प्रयुज्यते, तथा च उपपायज्ञानजन्योपपादकज्ञानमर्थापत्तिः, तत्करणमर्थापत्ति-प्रमाणं, तच्चोपपाद्यज्ञानम् । तत्र यस्याभवे यस्यानुपपत्तिस्तत्तत्रोपपादकं , येन विना यदनुपपन्नं तदुपपाद्यमित्यर्थः । तस्याः स्वरूपमाह । जीव तइति । जीवतश्चैत्रस्य गृहाभाव उपपाद्यः बहिः सत्त्वं विना ऽनुपपाद्यमानत्वात् । तज्ज्ञानेनऽदृष्टस्य सत्त्वस्योपपादकस्य कल्पनमर्थापत्तिरित्यर्थः । वृद्धानां मीमांसकानाम् । अनु मानमेव--अनुमितिरेव । उपपथस्य तद्विनानुपपन्नत्वं च-तः दभावव्यापकामावप्रतियोगित्वम् अन्यस्यासम्भवात् । तज्ज्ञानं च व्यतिरेक्यनुमानमेवेति नैयायिकघण्टाघोषसत्त्वेपि त्विव्द्माेन सति यत्र यन्नास्ति तदन्यत्र तदस्ति यथा गृहकोणेऽतिष्ठन्नहं गृहमध्ये तिष्ठमीयाद्यन्वय्यनुमानमपि सम्भवतीत्त्याह । यदा खल्विति । अव्यापक-परिच्छिन्नयरिरिमाणवान् । गृहभावेन वहिःसत्त्व- कल्पनवद्बहिःसत्वेन गृहासत्त्वकल्पनापि सम्भवतीत्यभिप्रायेणाह । एकत्र्स्तीति। अनुमानप्रकारमाह । तथेति । ‘जीवंश्चैत्रोगृहे न’ इति