लिङ्गेन बहिर्भावदर्शनमनुमानमेव । न च चैत्रस्य क्व- चित्सत्त्वेन गृहाभावः शक्योऽपह्नोतुम्,येनासिद्धो गृ- हा भावो बहिर्भावे आ हेतुः स्यात् । न च गृह्यभावेन वा सत्वमपह्नूयते, येन सत्त्वमेवानुपपद्यमानमात्मानं न
वक्यश्रवणानन्तरं जीवतो गृहेऽसत्त्वमवधार्य्य ‘चैत्रो बहिरस्ति
विद्यमानत्वे सति गृहनिष्ठात्यन्ताभावप्रतियोगित्वान्मद्वत्’ इति नि
श्चिनोतीत्यर्थः । न चऽनन्निकृष्टे चैत्रे गृहनिष्ठाभावप्रतियोगित्व-
धर्मस्याSवगतिर्ने सम्भवतीति वाच्यम् । गृहे चैत्रस्यभाव इति
प्रत्यक्षत्व तत्प्रतियोगितत्वरूप -सम्बन्धावगाहिनः सत्त्वात् । न चैव
मपि सतो गृहाभाव दर्शनेन' इति मिश्रोक्त-(पृ० १६७ पं० ७)
विरोध इति वाच्यम् । तस्यास्मदुक्तेऽर्थे एव तात्पर्यात् । अन्यथा
‘जीवंश्चैत्रो बहिरस्ति विद्यमानत्वे सति गृहेऽभावान्मद्वत्’ इत्यत्र
गृहगताभावस्य पक्षधर्मत्वानुपपत्तेः ।
अन्ये तु न साक्षात्सम्बन्धेनैव पक्षधर्मत्वमावश्यकं, किं तु सा- क्षात्परम्परय व यस्य येन सम्बन्धो नेियतस्तेन तत्प्रतीतिः, अभा- नमेवाभावस्य चैत्रसम्बन्धः, चैत्राभाव इति नियत एव प्रतीयते । नच चत्रस्य गृहीतत्वादननुमेयत्वं, स्मृतौ विपरिवर्तमानस्य बहि- देशविशिष्टतयाऽनुमानपत्तेः । तथा च विद्यमानत्वससृष्टगृहाभाव एव लिङ्गमित्याहुः ।
ननु विद्यमानत्वे सति' इतिहेतुप्रविष्ट-विद्यमानस्वरूपं गुहबहि- र्देशसाधरण्येनावगम्यमानं सत्त्वं न हि गृहगतेनासत्वेन संसृज्यते विरो्धात्, इत्याशङ्क्याह ह । न च । चैत्रस्येति । तथ चाव्यापकस्य सर्वत्र समसम्भवेन काचित्क–सत्त्वस्य देशविशेषाद्यविशिष्टस्यैव वा निवेशान्न विरोध इत्यर्थः । यथा सत्त्वेन गृहमावो न विरुध्यते तथा गृहभावेन सत्वमपीत्याह । गृहभावेनेति । यद्वा सत्त्वाभा चप्रतियोगित्त्वयोः परस्परविरोधादसिद्धोयं हेतुरित्याशङ्क्याह ।
२३