पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
सटीकसाङ्ख्यात्त्वकौमुद्याम्।



बहिरवस्थापयेत् । तथा हि-चैत्रस्य गृहासत्त्वेन सत्त्व- मात्रं विरुध्यते, गृहसत्त्वं वा ? न तावद्यत्र क्वचन स- त्वस्यास्ति विरोधो गृहासत्त्वेन, भिन्नविषयत्वात् । ‘दे- शसमन्येन गृह विशेषाक्षेपोSपि पाक्षिक इति समान-- विषयतय विरोध” इति चेत् न । प्रमणविनिश्चितस्य गृहे ऽसत्तवस्य पाक्षिकतय सांशयिकेन गृहसत्त्वेन प्रतेि क्षेपायोगात् । नापि प्रमणनिश्चितो गृहाभावः पाक्षिक- मस्य गृहसत्वं प्रतिक्षिपन् सत्त्वमपि प्रतिक्षेप्तुं सांशयि- कत्वं च व्यपनेतुमर्हतीति युक्तम् । गृहवच्छिनेन चैत्रा- भावेन गृहसत्त्वं विरुद्धत्वात् प्रतिक्षिप्यते , न तु सत्त्व मात्रम्, तस्य तत्रौदासीन्यात् । तस्माद्गृहाभावेन लि- ङ्गेनं सिद्धेन सतो बहिर्भावो ऽनुमीयत इति युक्तम् । ए- तेन ‘बिरुद्धयोः प्रमाणयोर्विषयव्यवस्थया Sविरोधापा-




न च चैत्रस्येत्यादि । तथा च जीवतोऽव्यापकस्योभयोदर्शना- न्न विरोधइत्यर्थः । तत्रोपपत्तिमाह । तथ हीति । ननु जीवं- स्चैत्रो गृहेऽस्ति बहिर्वेति ज्ञानस्य गृहादिकमादाय समानविषयत्व- मस्येवेति द्वितीयपक्षमाशङ्कते । देशसामान्येनेति । प्रति क्षेपायोगात्-संशयस्य तदपेक्षया दुबलवन प्रमाणसिद्धस्या- ऽसत्वस्य प्रत्यख्यानाभाव।त् । अन्यथा संशय्त्तरं मेय- निश्चयः कुत्रापि न स्यात् । तुल्पयुक्त्या प्रमाणनिश्चितोप्य- भावस्तादृशं सर्वं न प्रतिक्षेप्तुं समर्थ इत्याह । नापीतिपाक्षि कं-सांशयिकम् । अस्य-चैत्रस्य । प्रतिक्षिपन्-निरस्यन् । स- वं-सत्त्वमात्रम् । तत्र हेतुमाह । गृहवच्छिन्नेति । तत्र सर्वमात्र प्रतिक्षेपे उपसंहरति । तस्मादिति । ननु विरुद्धयोः सत्त्वासत्त्व सधकप्रमाणयोर्विषयव्यवस्थयाऽविरोधापाददनमर्थापत्तेः प्रमेया- स्तरमस्ति, तच्च नानुमानफलमित्यत आह । एतेनेति । 'विवाद-